Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 6
________________ नमो नमो निम्मल दंसणस्त पंचम गणधर श्री सुधर्मास्वामिने नमः ४० आवश्यक - मूलसूत्रं (सटीक) [प्रथमं मूलसूत्रं ] मूलम् + भद्रबाहुस्वामिरचिता निर्युक्तिः + पूर्वाचार्य रचितं भाष्यं + हरिभद्रसूरिरचिता वृत्तिः आवश्यक सूत्रे "पीठिका" - प्रणिपत्य जिनवरेन्द्रं वीरं श्रुतदेवतां गुरून् साधुन् । आवश्यकस्य विवृतिं, गुरूपदेशादहं वक्ष्ये ॥ यद्यपि मया तथाऽन्यैः कृताऽस्य विवृतिस्तथापि संक्षेपात् । तद्रुचिसत्त्वानुहहेतोः त्रियते प्रयासोऽयम् ॥ ३ वृ- इहावश्यप्रारम्भप्रयासोऽयुक्तः, प्रयोजनादिरहितत्वात् कण्टकशाखामर्दनवत् इति एवमाद्याशङ्कापनोदाय प्रयोजनादि पूर्वं प्रदर्श्यत इति उक्तं च " प्रेक्षावतां प्रवृत्त्यर्थं, फलादित्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादी, वाच्यमिष्टार्थसिद्धये ॥ इत्यादि । अतः प्रयोजनमभिधेयं सम्बन्धो मङ्गलं च यथावसरं प्रदर्श्यत इति । तत्र प्रयोजनं तावत् परापरभेदभिन्नं द्विधा, पुनरेकैकं कर्तु श्रोत्रपेक्षया द्विधैव तत्र द्रव्यास्तिकनयालोचनायामागमस्य नित्यत्वात् कर्तुरभाव एव, "इत्येषा द्वादशाङ्गी न कदाचिन्नासीत्, न कदाचित्र भविस्यति, न कदाचिन्न भवति" इतिवचनात् । पर्यायास्तिकनयालोचनायां चानित्यत्वात्तत्सद्भाव इति । तत्त्वालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्य अर्थापेक्षया नित्यत्वात् सूत्ररचनापेक्षया चानित्यत्वात् कथञ्चित् कर्तुसिद्धिरिति । तत्र सूत्रकर्तुः परमपवर्गप्राप्तिः अपरं सत्त्वानुग्रहः, तदर्थप्रतिपादयितुः किं प्रयोजनमिमित चेत्, न किञ्चित् कृतकृत्यत्वात्, प्रयोजनमन्त रेणार्थप्रतिपादनप्रयासोऽयुक्तः इतिचेत्, न तस्य तीर्थकरनामगोत्रविपाकित्वात्, वक्ष्यति च"तं च कहं वेइज्जइ ?, अगिलाए धम्मदेसनादीहि" इत्यादिना । श्रोतॄणां त्वपरं तदर्थाधिगमः, परं मुक्तिरेवेति । कथम् ? ज्ञानक्रियाभ्यां मोक्षस्तन्मयं चावश्यकमितिकृत्वा, नावश्यकश्रवणमन्तरेण विशिष्टज्ञानक्रियावाप्तिरुपजायते, कुतः ?, तत्कारणत्वात्तदवाप्तेः, तदवाप्तौ च पारम्पर्येण मुक्तिसिद्धेः इत्यतः प्रयोजनवानावश्यकप्रारम्भप्रयास इति । तदभिधेयं तु सामायिकादि । सम्बन्धश्च उपायोपेयभावलक्षणः तर्कानुसारिणः प्रति कथम् ? उपेयं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 808