Book Title: Agam Sutra Satik 28 Tandulvaicharika PainngSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ मू०१ १३३ नगरे व्यवस्थित एवाभासेनस्य विपाकश्रुताङ्गवर्णितो व्यतिकरः सम्पन्न इति ?, अत्रोच्यते, सर्वमिदमर्थानर्थजातंप्राणिनांस्वकृतकर्मणः सकाशादुपजायते, कर्म तुद्वेधा-सोपक्रमनिरुपक्रम च, तत्रयानि वैरादीनि सोपक्रमकर्मसम्पाद्यानि तान्येव तीर्थकरातिशयादुपशाम्यन्ति, सदोषदात् साध्यव्याधिवत्, यानि तु निरुपक्रमकर्मसम्पाद्यानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकरणविषयानि, असाध्यव्याधिवत्, अत एव सर्वातिशयसम्पत्समन्वितानां जिनानामप्पनुपशान्तवैरभावा गोशालकादय उपसर्गान् विहितवन्त इति । महांश्चासौ वीरश्चकर्मविदारणसहिष्णुर्महावीरस्तम्, 'वुच्छंति वक्ष्ये--मणिष्यामिप्रकीर्णकं-श्रीवीरहस्तदीक्षितमुनिविरचितं नन्दीसूत्रोक्तग्रन्थविशेषमिदं-प्रत्यक्षं तन्दुलानां वर्षशतायुष्कुरुषप्रतिदिनभोग्यानां सङ्ख्याविघारेणोपलक्षितं तन्दुलवैचारिकं नामेति ॥१॥ मङ्गलाचरणमभिधेयं च प्रतिपाद्यात्र द्वारगाथाद्वयमाहमू. (२) सुणह गणिए दह दसा वाससयाउस्स जह विभजंति । संकलिए वोगसिए जंचाउंसेसर्य होइ॥ वृ. 'सुणह०' अत्र पदानां सम्बन्धोऽयं-वर्षशतायुषो जन्तोर्यथा दश दशा-दशावस्थाः 'विभजन्तीति पृथग भवन्ति तथा यूर्य शृणुत, क्व सति? -गणिते-एकद्वयादीति क्रियमाणे सति, तथा दशदशा सङ्कलिते-एकत्रमीलिते तथा व्युत्कर्षिते-निष्कासिते सति वाससयं परमाउं इत्तो पत्रासं हरइ निद्दाए' इत्यादिना यच्चायुःशेषकं भवति तदपि यूयं शृणुत।। मू. (३) जत्तियमिते दिवसे जत्तियराईमुहुत्तमुस्सासे। गर्भमि वसइ जीवो आहारविहिं च बुच्छामि ।। वृ.यावनमात्रा दिवसान् यावदात्रीर्यावन्मुहूर्तान्यावदुच्छासान्जीवो गर्भे वसतितान् वक्ष्ये, गर्भादिके आहारविधिं चशब्दाच्छरीररोमादिस्वरूपं च वक्ष्ये-भणिष्यामीति ॥ तत्र गर्भे अहोरात्राणांप्रमाणमाहमू. (४) दुन्नि अहोरत्तसए संपुण्णे सत्तसत्तरचेव। गब्यमि वसइ जीवो अद्धमहोरतमण्णं च ।। पृ. "दुन्नि" द्वे अहोरात्रशते (२००) सम्पूर्णे सप्तसप्तत्यधिके (७७) अन्यदर्धमहोरात्र च जीवो गर्भे वसति-तिष्ठति, एतावता नव मासान् साप्तदिनांश्च जीवो गर्भे तिष्ठतीत्यर्थः । एएतु अहोरत्ता नियमा जीवस्स गब्भवासंमि। हीणाहिया उइत्तो उवघायवसेण जायंति ।। वृ. “एए तु" एते-उक्तरूपा अहोरात्रा निश्चयेन जीवस्य गर्भवासे भवन्ति 'इत्तो'त्ति अस्मादुक्तादहोरात्रप्माणात् उपघातवशेन-वातपित्तादिदोषेण हीनाधिका अपि 'जायंति'त्ति धातूनामेनकार्थत्वात् भवन्तीत्यर्थः, तुशब्दोऽप्यर्थः स च योजित इति। मू. (६) अट्ट सहस्सा तिनि उसया मुहत्ताण पन्नवीसाय। गभगओ वसइ जीओ नियमा हीणाहीया इत्तो ।। वृ.अथ गर्भमुहूर्तानाप्रमाणमाह-"अट्ठ सहस्सा" अष्टौ सहस्राणि त्रीणि शतानि पञ्चविंशत्यधिकानिमुहूर्तानि (८३२५) निश्चयेन जीवो गर्भेवसति, तानिच कथं भवन्ति?, उक्तलक्षणाः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88