Book Title: Agam Sutra Satik 28 Tandulvaicharika PainngSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 49
________________ १७२ तन्दुलवैचारिक-प्रकिर्णकसूत्रम् १०२ शिराशतानि स्नसाशतानि, पञ्च पेसीशतानि, 'नव ध०' नव धमन्यो-रसवहनाडयः 'नव०' नवनवति रोमकूपशतसहस्राणि रोम्णां-तनुरुहाणां कूपा इव कूपा रोमकूपाः रोमरन्ध्राणीत्यर्थः तेषां नवनवतिर्लक्षा इति, विना केशश्मश्रुभि, केशश्मश्रुभिः सह पुनः सार्धास्तिन रोमकूपकोटयो भवन्ति मनुष्यशरीरे इति ॥ अथपूर्वोक्तानि शिरासप्तशतानि कथं भवन्तीति सूत्रकार एवाह--'आउसो०' हे आयुष्मन् अस्मिन् शरीरे 'सट्ठि' इह पुरुषशरीरेनाभिप्रभवाणि शिराणां-स्नसानां सप्त शतानि भवन्ति, तत्र षष्ट्यधिकं शतं शिराणां नाभिप्रभवाणामूर्ध्वगामिनीनां शिरस्युपागतानां भवन्ति, यास्तु रसहरण्य इत्युच्यन्ते, 'जाणं सित्तियासामूर्ध्वगामिनीनां शिराणां से' तस्य जीवस्य निरुपघातेनअनुग्रहेण चक्षु १ श्रोत्ररध्राणइजिह्वाबलं भवति, यासां 'से' तस्योपघातेन-विघातेन चक्षुश्रोत्रघ्राणजिह्वाबलमुपहन्यते। तथा 'आउसो' हे आयुष्पन्! अस्मिन् शरीरे षष्ट्यधिकंशतं १६० शिराणां नाभिप्रभवाणां नाभेरुत्पन्नानामित्यर्थः, अधोगामिनीनांपादतले उपगतानां-प्राप्तानां भवति,यासां निरुपघातेन जङ्क्षाबलं भवति, तासांचैव से' तस्य जीवस्योपघातेन-विकारप्राप्तेन शीर्षवेदना-सर्वमस्तकपीडा अर्घशीर्षवेदना मस्तकशूलंच भवति, 'अच्छिणित्ति अक्षिणी-लोचने 'अंधिजंति'त्ति अन्धीभवत इत्यर्थः ॥ तथा 'आउसो०' हे आयुष्मन् ! अस्मिन्प्रत्यक्षेशरीरेषष्ट्यधिकंशतंशिराणांनाभिप्रभवाणां तिर्यग्गामिनीनां हस्ततले उपागतानां भवति, यासां निरुपघातेन-निरुपद्रवेण बाहुबलं भवति, तासां चैव 'से' तस्योपघातेन-उपद्रवेण पार्श्ववेदना पृष्ठिवेदना कुक्षिवेदना कुक्षिशूलं च भवति, तथा 'आउ०' हे आयुष्मन्! अस्यजन्तोः षष्ट्यधिकं शतं शिराणांनाभिप्रभवणामधोगामिनीनां गुदप्रविष्टानांभवति, यासां निरुघातेन-उपद्रवाभावेन मूत्रपुरीषवातकर्म-प्रस्रवणकर्म विष्ठाकर्म वायुकर्म प्रवर्तते, मूत्रादिकं सुखेन कर्तुं शक्यत इत्यर्थः, तासां चैव गुदप्रविष्टशिराणामुपघातेन मूत्रपुरीषवातनिरोधो भवति, निरोधेनासिगुदाकुराः 'हरस' इति लोकोक्ति क्षुभ्यन्ति-क्षोभं यान्ति, परमपीडाकरं रुधिरं मुञ्चन्तीत्यर्थः, भवभावनोक्तकालर्षिवत् पाण्डुरोगश्च भवति । तथा 'आउसो०' हेआयुष्मन्! अस्यजन्तोः पञ्चविंशतिः शिराः सिंभधारिणी'त्ति श्लेष्मधारिण्यो भवन्ति, 'पंच०' पञ्चविंशतिशिराः पित्तधारिण्यः, दश शिराःशुक्रधारिण्यः, 'सत्तसि०' पुरुषस्योक्तप्रकारेण सप्तशिराशतानि भवन्ति, कथम्? शरीरेऊर्ध्वगामिन्यः १६० अधोगामिन्यः १६० तिर्यग्गामिन्यः १६० अधोगामिन्यो गुदप्रविष्टाः १६० श्लेष्मधारिण्यः २५ पित्तधारिण्यः २५ शुक्रधारिण्यः १०एवं सर्वा७००शिराः भवन्ति पुरुषाणां शरीर इति । 'तीसू०' पुरुषोक्ताः यास्तास्त्रशदूनाः स्त्रियाः भवन्ति, सप्तत्यधिकानिषट्शतानिभवन्तीत्यर्थ ६७०, वीसू० पुरुषोक्ता यास्ताः विंशत्यूनाः पाण्डकस्याशीत्यधिकानि षट् शतानि भवन्तीत्यर्थ ६८०॥ अथशरीरे रुधिरादिमानमाह-'आउसो' हे आयुष्मन्! अस्य जन्तोः रुधिरस्याढकं भवति, वसाया अर्धाढकं, 'मत्थुलिंगस्से तिमस्तकभेजकस्य फिप्फिसादेर्वा प्रस्थः मूत्रस्याढकंपुरीषस्य प्रस्थः पित्तस्य कुडवः श्लेष्मणः कुडवः शुक्रस्यार्धकुडवो भवति, एतच्चाढकप्रस्थादिमानंबालकुमारतरुणादीनां 'दो असईओ पसई दो पसईयो य सेइआ होइचत्तारि सेईया कुलओ चत्तारि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88