Book Title: Agam Sutra Satik 06 Gnatadharmakath AngSutra 06
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 17
________________ १४ ज्ञाताधर्मकथाङ्ग सूत्रम्-91-19/५ एवं खलु जंबू! समणेणं जाव संपत्तेणं नायाणं एगूणवीसं अज्झयणा पं०, तं० वृ. 'तए णं'ति ततोऽनन्तरंणमित्यलंकारे चम्पाया नगर्याः परिषत्-कूणिकराजादिका निर्गता-निःसृता सुधर्मस्वामिवन्दनार्थं, "जामेव दिसिंपाउब्भूया तामेव दिसिंपडिगए'तियस्या दिशः सकाशात् प्रादुर्भूता-आविर्भूता आगता इत्यर्थः तामेव दिशं प्रतिगतेति। तस्मिन् कालेतस्मिन् समये आर्यसुधर्मणोऽन्तेवासीआर्यजम्बूनामनगारः काश्यपगोत्रेण 'सत्तुस्सेहे'त्ति सप्तहस्तोच्छ्रयो यावत्करणादिदंश्यं "समचउरससंठाणसंठिए वारिसहनारायसंघयणे कणगपुलगनिधसपम्हगोरे" कनकस्य-सुवर्णस्य 'पुलग'त्ति यः पुलको लवस्तस्य यो निकषः-कषपट्टे रेखालक्षणः तथा पम्ह'त्ति पद्मगर्भस्तद्वत् गौरो यः स तता, वृद्धव्याख्या तु कनकस्य न लोहादेर्यः पुलकः-सारो वर्णातिशयः तप्रधानोयोनिकषो-रेखातस्य यत्पक्ष्मबहुलत्वं तद्वद्यो गौरः स कनकपुलकनिकषपक्ष्मगौरः, तथा 'उग्रतपा' उग्रम्-अप्रधृष्यं तपोऽस्येतिकृत्वा, तथा 'तत्ततवे' तप्तं-तापितं तपो येन सतत्पतपाः, एवं तेनतत्तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्मापितपोरूपः संतापितो यतोऽन्यस्यास्पृश्यमिवजातमिति, तथा महातपाः-प्रशस्ततपाबृहत्तपावा, तथा दीप्तं तपो यस्य सदीप्ततपाः, दीप्तं तु हुताशन इव ज्वलत्तेजः कर्मेन्धनदाहकत्वात्, तथा “उरालेघोरेघोरगुणेघोरतवस्सी घोरबंभचेरवासीउच्छूढसरीरेसंखित्तविउलतेयलेसे" इति पूर्ववत्, एवंगुणविशिष्टो जम्बूस्वामी भगवान् आर्यसुधर्मणः स्थविरस्य अदूरसामंतेत्ति दूर-विप्रकर्षः सामन्तं-समीपं उभयोरभावोऽदूरसामन्तं तस्मिन्नातिदूरे नातिसमीपे उचिते देशे स्थित इत्यर्थः, कथं ? -“उटुंजाणू इत्यादि शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याभावाञ्च उत्कटुकासनः सवपदिस्यते ऊर्द्धजानुनी यस्यसऊर्द्धजानुः ‘अधःशिराः' अधोमुखो नोतिर्यग् वा विक्षिप्तष्टिः किं तु नियतभूभागनियमितदृष्टिरिति भावना, 'झाणकोट्टोवगए'त्ति ध्यानमेव कोष्ठोध्यानकोष्ठस्तमुपगतोध्यानकोष्ठोपगतः, यथा हि कोष्ठके धान्यंप्रक्षिप्तमविप्रकीर्णं भवत्येवं स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्येन्द्रियमनांस्याधिकृत्य संवृतात्मा भवतीति भावः, संयमेन-संवरेण तपसा-ध्यानेनात्मानंभावयन्-वासयविहरति-तिष्ठति। 'तएणं से' इत्यादि, तत इत्यानन्तर्ये तस्मात् ध्यानादनन्तरं णमित्यलंकारे, 'स' इति पूर्वप्रस्तुतपरामर्शार्थः तस्य तु सामान्योक्तस्य विशेषावधारणार्थं आर्यजम्बूनामेति, स च उत्तिष्ठतीति सम्बन्धः, किम्भूतः सन्नित्याह--'जायसद्धे' इत्यादि, जाता-प्रवृत्ता श्रद्धा-इच्छाऽस्येतिजातश्रद्धः, क्व ?-वक्ष्यमाणानां पदार्थानां तत्त्वपरिज्ञाने स तथा, जातः संशयोऽस्येति जातसंशयः, संशयस्त्वनिर्धारितार्थंज्ञानमुभयवस्त्वंशावलम्मिबतया प्रवृत्तं, सत्वेवंतस्य भगवतोजातः-यथा भगवता श्रीमन्महावीरवर्द्धमानस्वामिना त्रिभुवनभवनप्रकाशप्रदीपकल्पेनपञ्चमस्यांगस्य समस्तवस्तुस्तोमव्यतिकराविर्भावनेनार्थोऽभिहित एवंषष्ठस्याप्युक्तोऽन्यथा वेति, तथा जातकुतूहलो' जातं कुतूहलंयस्य सतथा, जातीत्सुक्य इत्यर्थः, विश्वस्यापिविश्वव्यतिकरस्यपञ्चमाङ्गेप्रतिपादितत्वात्षष्ठाङ्गस्य कोऽन्योऽर्थो भगवताऽभिहितो भविष्यतीति, संजातश्रद्ध इत्यादौ समुत्पन्नश्रद्ध इत्यादौ च संशब्दः प्रकर्षादिवचनः, तथा उत्पन्नश्रद्धः प्रागभूता उत्पन्ना श्रद्धा यस्येत्युत्पन्नश्रद्धः, अथोत्पन्नथद्धत्वस्य जातश्रद्धत्वस्य च कोऽथभेदो?, न कश्चिदेव, वि.मा तटायोगः?, हेतुत्व Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 280