Book Title: Agam Sutra Satik 06 Gnatadharmakath AngSutra 06
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/४
उत्कर्षभिधानार्थं चास्य विशेषणकलापोपादानं चिकीर्षितमिति, एवं कुलसंपन्नोऽपि, नवरं कुलं - पैतृकः पक्षः तथा बलं संहननविशेषसमुत्थः प्राणः रूपम् - अनुत्तरसुररुपादनंतगुणं शरीरसौन्दर्यं विनयादीनि प्रतीतानि नवरं लाघवं - द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः एभिः संपन्नो यः स तथा, 'ओयंसि 'त्ति ओजोमानसोऽवष्टम्भस्तद्वानोजस्वी तथा तेजस्वी तेज:शरीरप्रभा तद्वांस्तेजस्वी वचो - वचनं सौभाग्याद्युपेतं यस्यास्ति स वचस्वी अथवा वर्चः - तेजः प्रभाव इत्यर्थस्तद्वान् वर्चस्वयशस्वी - ख्यातिमान्, इह विशेषणचतुष्टयेऽपि अनुस्वारः प्राकृतत्वात्, जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीतं, नवरं क्रोधादिजय उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेयः, तथा जीवितस्य - प्राणधारणस्याशा वाञ्छामरणाञ्च्चा यद्मयं ताभ्यां विप्रमुक्तः जीविताशामरणभयवि-प्रमुक्तस्तदुभयोपेक्षक इत्यर्थः, तथा तपसा प्रधान- उत्तमः शेषमुनिजना पेक्षया तपो वा प्रधानं यस्य स तपः प्रधानः, एवं गुणप्रधानोऽपि, नवरं गुणाः- संयमगुणाः, एतेन च विशेषणद्वयेन तपः संयमौ पूर्वबद्धाभिनवयोः कर्मणोर्निर्जरणानुपादानहेतू मोक्षसाधने मुमुक्षूणामुपादेयावुपदर्शितौ, गुणप्रधान्ये प्रपञ्चार्थमेवाह
१२
'एवं करणे' त्यादि, यथा गुणशब्देन प्रधानशब्दोत्तरपदेन तस्य विशेषणमुक्तमेवं करणादिभिरेकविंशत्या शब्दैरेकविंशतिविशेषणान्यध्येयानि, तद्यथा-करणप्रधानश्चरणप्रधानो यावच्चरित्रप्रधानः, तत्र करणं-पिण्डविशुद्धयादिः, यदाह - "पिंडविसोही समिई भावणे" त्यादि, चरणं-महाव्रतादि, आहच- 'वयसमणधम्मसंजमवेयावच्चं चे 'त्यादि, निग्रहः - अनाचार - प्रवृत्तेनिषेधनं निश्चयः-तत्त्वानां निर्णयः, विहितानुष्ठानेषु वाऽवश्यंकरणाभ्युपगमः आर्जवं मायानिग्रहो मार्दवं-माननिग्रहो लाघवं - क्रियासु दक्षत्त्वं क्षान्तिः - क्रोधनिग्रहः गुप्तिर्मनोगुप्तयादिका, मुक्तिर्निर्लोभता, विद्याः - प्रज्ञत्यादिदेवताधिष्ठिता वर्णानुपूर्व्यः, मन्त्रा - हरिणेगमिष्यादिदेवताधिष्ठितास्ता एव अथवा विद्याः ससाधनाः साधनरहिता मन्त्रा ब्रह्म - ब्रह्मचर्य सर्वमेव वा कुशलानुष्ठानं वेदः–आगमो लौकिकलोकोत्तरकुप्रावचनिकभेदः नया-नैगमादयः सप्त प्रत्येकं शतविधाः नियमा-विचित्रा अभिग्रहविशेषाः सत्यं-वचनविशेषं शौचं - द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता ज्ञानं-मत्यादि दर्शनं चक्षुर्दर्शनादि सम्यकत्वं वा चारित्रं बाह्यं सदनुष्ठानं, यच्चेह करणचरणग्रहणेऽपि आर्जवादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थं,
ननु जितक्रोधत्वादीनां आर्जवादीनां च को विशेषः ?, उच्यते, जितक्रोधादिविशेषणेषु तदुदयविफलीकरणमुक्तं मार्दवप्रधानादिषु तु उदयनिरोधः, अथवा यत एव जितक्रोधादिरत एव क्षमादिप्रधान इत्येवं हेतुहेतुमद्मावात् विशेषः, तथा ज्ञानसंपन्न इत्यादी ज्ञानादिमत्त्वमात्रमुक्तं ज्ञानप्रधान इत्यादौ तु तद्वतां मध्ये तस्य प्राधान्यमित्येवमन्यत्राप्यपौनरुक्तयं भावनीयं, तथा 'ओराले ' त्ति भीमो भयानकः, कथम् ? - अतिकष्टं तपः कुर्वन् पार्श्ववर्त्तिनामल्पसत्त्वानां भयानको भवति, अपरस्त्वाह 'उराले 'त्ति उदारः - प्रधानः 'धोरि' त्ति धोरो निर्घृणः परिषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये,
अन्ये त्वात्मनिरपेक्षं घोरमाहुः, तथा 'घोरव्वए' त्ति घोराणि - अन्यैर्दुरनुचराणि व्रतानिमहाव्रतानि यस्य स तथा, घौरैस्तपोभिस्तपस्वीच, तथा घोरंच दहह्मचर्यं चाल्पसत्त्वैर्दुःखं यदनुचर्यते तस्मिन् घोरब्रह्मचर्ये वस्तुं शीलमस्येति घोरब्रह्मचर्यवासी 'उच्छढशरीरे' 'उच्छूढं 'ति उज्झितमि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 280