Book Title: Agam Sutra Satik 06 Gnatadharmakath AngSutra 06
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
श्रुतस्कन्धः-१, वर्ग:, अध्ययनं -१
१७
यस्य स, 'ससिसोमाकारे कंते पियदंसणे' शशिवत् सौम्याकारं कान्तं - कमनीयमत एव प्रियं द्रष्टणां दर्शनं-रूपं यस्य स तथा, अत एव 'सुरूवे' त्ति सुरूप इति, तथा सामदण्डभेदउपप्रदानलक्षणा या राजनीतयः तासां सुष्टुं प्रयुक्तं-प्रयोगो व्यापारणं यस्य स तथा, नयानां - नैगमादीनां उक्तलक्षणनीतीनां चयाविधा-विधयः प्रकारास्तान् जानाति यः स तथा, पश्चात्पदद्वयस्य कर्मधारयः, तत्र परस्परोपकारप्रदर्शनगुणकीर्तनादिना शत्रोरात्मवशीकरणं साम, तथाविधपरिक्लेशे धनहरणादिको दण्डः, विजिगीषितशत्रुपरिवर्गस्य स्वाण्यादिस्नेहापनयनादिको भेदः, गृहीतधनप्रतिदानादिकमुपप्रदानं, नयविधयस्तु सप्त नैगमादयो नयाः प्रत्येकं शतभेदा, नीतिभेदास्तु सामनीतेः पञ्च दण्डस्य त्रयः भेदस्य उपप्रदानस्य च पञ्च कामन्दकादिप्रसिद्धा । इति ।
तथा हाच - स्थाणुरयं पुरुषो वेत्येवं सदर्थालोचनाभिमुखा मतिचेष्टा अपोहश्च - स्थाणुरेवायमित्यादिरूपो निश्चयः मार्गणं च - इह वल्ल्युत्सर्णादयः स्थाणुधर्मा एव प्रायो घटन्ते इत्याद्यन्नयधर्मालोचनरूपं गवेषणंच - इह शरीरकण्डव्यनादयः पुरुषधर्माः प्रायो न घटन्त इति व्यतिरेकधर्मालोचनरूपं ईहाव्यहमार्गणागवेषणानि तैरर्थशास्त्रे अर्थोपायव्युत्पादग्रंथे कौटिल्यराजधानीत्यादौ या मतिर्बोधस्तया विशारदः - पण्डितो यः स ईहाव्यूहमार्गणगवेषणार्थशास्त्रमतिविशारदः, तथौत्पत्तिक्यादिकया बुद्धया उपपेतो- युक्तः, तन्त्रौत्पत्तिकी अष्टाश्रुताननुभूतार्थविषयाऽऽकस्मिकी वैनयिकी गुरुविनयलभ्यशास्त्रार्थसंस्कारजन्या कर्म्मजा कृषिबाणिज्यादिकर्माभ्यासप्रभवा पारिणामिकी- प्रायो वयोविपाकजन्या, तथा श्रेणिकस्य राज्ञः बहुषु कार्येषु च - भक्तसेवकराज्यादिदानलक्षणकृत्येषु विषयभूतेषु तथा कुटुम्बेषु च - स्वकीयपरकीयेषु विषयभूतेषु ये मन्त्रादयो निश्चायन्तास्तेषु आप्रच्छनीयः,
तत्र मन्त्रामन्त्रणानि पर्यालोचनानि तेषु च गुह्यानीव गुह्यानि - लञ्जनीयव्यवहारगोपितानि तेषु च रहस्यानि - एकान्तयोग्यानि तेषु निश्चयेषु वा - इत्थमेवेदं विधेयमित्येवंरूपनिर्णयेषु अथवा स्वतन्त्रेषु कार्यादिषु षट्सु विषयेषु चकाराः समुच्चयारार्थाः आप्रच्छनीयः - सकृत् प्रतिप्रच्छनीयो द्वित्रिकृत्वः किमिति ? - यतोऽसौ 'मेढि 'त्ति खलकमध्यवर्त्तिनी स्थूणायस्यां नियमिता गोपंक्तिर्धान्यं गाहयति तद्वद्यमालम्ब्य सकलमन्त्रिमडलं मन्त्रणीयार्थान् धान्यमिव विवेचयति सा मेढी, प्रमाणं-प्रत्यक्षादि तद्वद्यः तद्द्वं धर्थानमव्यभिचारित्वेन तथैव प्रवृत्तिनिवृत्तिगोचरत्वात् स ०
T
तथा 'आधारे' आधारस्येव सर्वकार्यषु लोकानामुपकारित्वात् तथा 'आलंबनं' रज्वादि तद्वदापद्गर्त्तादिनिस्तारकत्वादालम्बनं तथा चक्षुः- लोचनं तद्वल्लोकस्य मन्त्र्यमात्यादिविविधकार्येषु प्रवृत्तिनिवृत्तिविषयप्रदर्शनकत्वचक्षुरिति, एतदेव प्रपञ्चयति- 'मेढिभूए' इत्यादि भूतशब्द उपमार्थः सर्वकार्येषु - सन्धिविग्रहादिषु सर्वभूमिकासु - मन्त्रिअमात्यादिस्थानकेषु लब्धः - उपलब्धः प्रत्ययः - प्रतीतिरविसंवादिवचनं च यस्य स तथा विइण्णवियारे' त्ति वितीर्णोराज्ञाऽनुज्ञातो विचारः - अवकाशो यस्य विश्वसनीयत्वात् असौ वितीर्णविचारः सर्वकार्यादिष्विति प्रकृतं,
अथवा 'विण्णवियारे' विज्ञापिता राज्ञो लोकप्रयोजनानां निवेदयिता, किं बहुना ? - राज्यधुरश्चिन्तकोऽपि - राज्यनिर्वाहक श्चाप्यभूत्, एतदेवाह - श्रेणिकस्य राज्ञो राज्यं च-राष्ट्रादिसमुदायात्मकं राष्ट्रं च - जनपदं कोशं च - भाण्डागारं कोष्ठागारं च - धान्यगृहं बलं
7 2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 280