Book Title: Agam 09 Ang 09 Anuttaropapatik Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 217
________________ दीर्घसेनादि १३ कुमारवर्णनम् ( भुजङ्गप्रयातवृत्तम् ) गुरोभक्तिभावेन युक्तः क्रियावान् , ___ प्रसन्नः प्रवीणो विगौं गुणी च । तपोभावयुक्तः सदा राजते यः, तपस्वी मुनिमाँगिलाल प्रशान्तः ॥७॥ ( मन्दाक्रान्तावृत्तम् ) शान्तो दान्तः स्थचिरपदवीशोभितः शुद्धभावो, मोहोद्रेकममथनपरो मोक्षसौख्याभिलाषी । सम्यश्रद्धाविमलहृदयः षविधप्राणिपालो, देवीलालः सुमुनिरिह यो राजते सच्चरित्रः ॥८॥ द्वयधिकद्विसहस्राब्दे (२००२), विक्रमस्य गुरोर्दिने । ज्येष्ठकृष्णदले टीका, द्वादश्यां पूर्णतामगात् ॥९॥ टीकासमाप्तिसमये, साधवः सत्य उत्तमाः। सन्त्यत्र तेषां नामानि, कथ्यन्ते गुणवृद्धये ॥१०॥ तथाहि ( अनुष्ठवृत्तम् ) लिम्बडीसम्प्रदायस्थो,-धनजीस्वामिनामकः । गुरुभ्रात्रा समायुक्तो, राजते चन्द्रवद् गणे ॥११॥ ( शादूर्लविक्रीडीतवृत्तम् ) छोटालालमुनिर्वयोमधुरिमाऽऽनन्दमदः पाणिनां, चञ्चच्चन्द्रकलेव यस्य करुणा षट्कायतापापहृत् । पूर्णश्चन्द्र इव प्रतप्तजनताज्ञानामृताऽऽवर्षणः, लोकानन्दगुणेन यः किल सदानन्दी प्रसिद्धोऽभवत् ॥१२॥ वैयावृत्तिगुणप्रमोदितमुनिजेता कषायस्य यः, माणित्राणपरायणः करुणया यस्य द्रवत्यन्तरम् । लक्ष्मीचन्द्रमुनिः स शान्तहृदयो धीरस्तथैतावुभौ, राजेते मृदुमानसौ मुनिवरौ यो लिम्बडीगच्छके ॥१३॥ શ્રી અનુત્તરોપપાતિક સૂત્ર

Loading...

Page Navigation
1 ... 215 216 217 218