________________
दीर्घसेनादि १३ कुमारवर्णनम्
( भुजङ्गप्रयातवृत्तम् ) गुरोभक्तिभावेन युक्तः क्रियावान् ,
___ प्रसन्नः प्रवीणो विगौं गुणी च । तपोभावयुक्तः सदा राजते यः, तपस्वी मुनिमाँगिलाल प्रशान्तः
॥७॥ ( मन्दाक्रान्तावृत्तम् ) शान्तो दान्तः स्थचिरपदवीशोभितः शुद्धभावो,
मोहोद्रेकममथनपरो मोक्षसौख्याभिलाषी । सम्यश्रद्धाविमलहृदयः षविधप्राणिपालो,
देवीलालः सुमुनिरिह यो राजते सच्चरित्रः ॥८॥ द्वयधिकद्विसहस्राब्दे (२००२), विक्रमस्य गुरोर्दिने ।
ज्येष्ठकृष्णदले टीका, द्वादश्यां पूर्णतामगात् ॥९॥ टीकासमाप्तिसमये, साधवः सत्य उत्तमाः।
सन्त्यत्र तेषां नामानि, कथ्यन्ते गुणवृद्धये ॥१०॥ तथाहि
( अनुष्ठवृत्तम् ) लिम्बडीसम्प्रदायस्थो,-धनजीस्वामिनामकः । गुरुभ्रात्रा समायुक्तो, राजते चन्द्रवद् गणे ॥११॥
( शादूर्लविक्रीडीतवृत्तम् ) छोटालालमुनिर्वयोमधुरिमाऽऽनन्दमदः पाणिनां,
चञ्चच्चन्द्रकलेव यस्य करुणा षट्कायतापापहृत् । पूर्णश्चन्द्र इव प्रतप्तजनताज्ञानामृताऽऽवर्षणः,
लोकानन्दगुणेन यः किल सदानन्दी प्रसिद्धोऽभवत् ॥१२॥ वैयावृत्तिगुणप्रमोदितमुनिजेता कषायस्य यः,
माणित्राणपरायणः करुणया यस्य द्रवत्यन्तरम् । लक्ष्मीचन्द्रमुनिः स शान्तहृदयो धीरस्तथैतावुभौ,
राजेते मृदुमानसौ मुनिवरौ यो लिम्बडीगच्छके ॥१३॥
શ્રી અનુત્તરોપપાતિક સૂત્ર