________________
श्री अनुत्तरोपपातिकसूत्रे ॥ शास्त्रप्रशस्तिः ॥
( अनुष्टुववृत्तम् ) काठियावाडदेशे च, वर्द्धमानपुरी पुरा ।
वढवाणसिटीनाम्नी, या प्रसिद्धाऽस्ति संपति ॥१॥ तत्राहं मुनिमिः साढे, ग्रामाद्गामान्तरं व्रजन् ।
टीकामकार्षमागत्य, सरलामर्थबोधिनीम् ॥२॥ ते चेमे
( वसन्ततिलकावृत्तम् ) मिथ्यात्वदर्शन-चरित्रविमोहनीय,
विध्वंसनेन समवाप्य रुचिं स्पधर्मे । घ्याख्यानतो मुदमुपैति च यस्य पर्षत् ,
सोऽयं विभाति मुनिवीर-समीरमल्लः ॥३॥ शास्त्रार्थसंग्रहविधौ त्वरया युतेन,
साहाय्यमत्र मम तेन परं व्यधायि । तं वीरपुत्रपदशोभि-समीरमल्लं, नित्यं स्मरामि ननु किं करवाणि तस्मै
(शिखरिणीवृत्तम् ) उदारो निर्मानो जिननिगमतत्त्वार्थनिपुणः,
क्रियादक्षोऽक्लान्तो गुरुजनमनोहादजनकः । सभायां चातुर्याद् बहुजनमनोरञ्जनपरः, कनैयालालोऽयं सदयहृदयः संयमपरः ॥५॥
( मालिनीवृत्तम् ) धरणिरिव सहिष्णुः सिन्धुगाम्भीर्यजिष्णुः,
मुहुत इव कृशानुस्तेजसा दीप्यमानः । विमलमपि यदन्तः शारदाम्भासमान,
स मुनि-मदनलालः शोभते सत्तपस्वी ॥६॥
॥४॥
શ્રી અનુત્તરોપપાતિક સૂત્ર