Book Title: Agam 09 Ang 09 Anuttaropapatik Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 216
________________ श्री अनुत्तरोपपातिकसूत्रे ॥ शास्त्रप्रशस्तिः ॥ ( अनुष्टुववृत्तम् ) काठियावाडदेशे च, वर्द्धमानपुरी पुरा । वढवाणसिटीनाम्नी, या प्रसिद्धाऽस्ति संपति ॥१॥ तत्राहं मुनिमिः साढे, ग्रामाद्गामान्तरं व्रजन् । टीकामकार्षमागत्य, सरलामर्थबोधिनीम् ॥२॥ ते चेमे ( वसन्ततिलकावृत्तम् ) मिथ्यात्वदर्शन-चरित्रविमोहनीय, विध्वंसनेन समवाप्य रुचिं स्पधर्मे । घ्याख्यानतो मुदमुपैति च यस्य पर्षत् , सोऽयं विभाति मुनिवीर-समीरमल्लः ॥३॥ शास्त्रार्थसंग्रहविधौ त्वरया युतेन, साहाय्यमत्र मम तेन परं व्यधायि । तं वीरपुत्रपदशोभि-समीरमल्लं, नित्यं स्मरामि ननु किं करवाणि तस्मै (शिखरिणीवृत्तम् ) उदारो निर्मानो जिननिगमतत्त्वार्थनिपुणः, क्रियादक्षोऽक्लान्तो गुरुजनमनोहादजनकः । सभायां चातुर्याद् बहुजनमनोरञ्जनपरः, कनैयालालोऽयं सदयहृदयः संयमपरः ॥५॥ ( मालिनीवृत्तम् ) धरणिरिव सहिष्णुः सिन्धुगाम्भीर्यजिष्णुः, मुहुत इव कृशानुस्तेजसा दीप्यमानः । विमलमपि यदन्तः शारदाम्भासमान, स मुनि-मदनलालः शोभते सत्तपस्वी ॥६॥ ॥४॥ શ્રી અનુત્તરોપપાતિક સૂત્ર

Loading...

Page Navigation
1 ... 214 215 216 217 218