Book Title: Acharangasutram Sutrakrutangsutram Cha Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay Publisher: Motilal Banarasidas View full book textPage 6
________________ प्रकाशक-विज्ञप्तिः जैनसङ्के शास्त्रदृष्ट्याऽऽगमशास्त्रस्य भूयानुत्कर्ष इति विदितचरमेव विदुषाम् । भगवता महावीरस्वामिना जीवनकाले यदुपदिष्टं तदुत्तरवर्तिभिश्च जैनाचार्यैर्यदाचार्यपरम्परया गृहीतं तदत्र निवेशितम् । इत्थं पुण्यश्लोकस्य महनीयकीर्तेर्भगवतो महावीरस्य पुण्यवचसामागमशास्त्रेषु सङ ग्रहो जातः । सङग्रहात्मका एते पुण्यग्रन्था व्याख्यासहिताः पुरा प्राकाश्यमिताः कालान्तरेण च दुर्लभाः सजाताः । कदाचित् क्वचिदुपलब्धा अपि नेष्टसिद्धिकरा असंस्कृतपाठप्रचुरत्वात्संशोधनमपेक्षन्त इति मत्वा लालासुन्दरलालमहाभागास्तेषां प्रकाशनाय समुत्सुका आसन् । संशोधनकार्यविधये तत्रभवन्तमाचार्यवरं श्रीजम्बूविजयमुनि साग्रहं प्रार्थितवन्तः। तैश्च पुण्यात्मभिर्धर्मानुष्ठानपरैर्यथाकथञ्चिदधिगतसमय: सुश्रावकाग्रहेण स्वधर्माङ्गत्वेन च जैनागमशास्त्रस्य शुद्धिवृद्धिपत्रकादि परिशिष्टकार्य सम्पाद्य बहुपकृतं जिज्ञासूनाम् । प्राचाराङ्गसूत्रकृताङ्गसूत्रद्वयात्मकोऽयं प्रथमो भागः श्रीमति लालासुन्दरलालमहाभागे जीवत्येव मुद्रापितोऽभूत्, केवलमुद्घाटनविधिरेवावशिष्ट प्रासीत् । कालवशात्पूर्वमेव दिवङ्गतोऽसौ महाभाग इति तस्यानुपस्थितावेव ग्रन्थोऽयं प्रकाश्यते । शासनदेवश्च तदेषणां परिपुरयतु, जैनागम ग्रन्थमालां च निर्बाधं प्राकाश्यमियादिति परमकृपालु देवं प्रार्थयामहे । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 764