Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
३२
प्रस्तावना
की अपेक्षा ये बहुत कम हैं। यहां पर एक बात विशेष ध्यान देने योग्य है कि स्वयं प्राचार्य शीलांक ने स्वीकार किया है कि 'हमें चूर्णिकारस्वीकृत आदर्श मिला ही नहीं।' यही कारण है कि उनकी टीका में चूणि की अपेक्षा मूल सूत्रपाठ एवं व्याख्या में बहुत अन्तर पड़ गया है। इसके साथ मेरा यह कथन है कि आज हमारे सामने जो प्राचीन सूत्रप्रतियां विद्यमान हैं उनके पाठभेदों का संग्रह किया जाय तो सीमातीत पाठभेद मिलेंगे। इनमें अगर भाषाप्रयोग के पाठभेदों को शामिल किया जाय तो मैं समझता हूं कि पाठभेदों का संग्रह करने वाले का दम निकल जाय। फिर भी यह कार्य कम महत्त्व का नहीं है।"
देवधिगणिक्षमाश्रमणप्रमुखसंघेन वलभ्यां पुस्तकेषु लिखितायामपि अागमवाचनायां कालान्तरेण बहवः पाठभेदाः संजाता इति संभाव्यते, यतः चुणिषु वृत्तिषु च तत्र तत्र बहवः पाठभेदा निर्दिष्टाः । किञ्च, आचाराङ्ग-सूत्रकृताङ्गचूर्णिकृतां समक्षं या पाठपरम्परा आसीत् ततोऽप्यनेकेषु स्थानेषु अल्पीयसा भूयसा वांशेन भिन्ना पाठपरम्परा वृत्तिकृतां शीलाचार्याणां समक्षमासीत् । अतएव शीलाचार्य:
___ "इह च प्रायः सूत्रादर्शषु नानाविधानि सूत्राणि दृश्यन्ते, न च टीका (चूणि) संवादी एकोऽप्यादर्शः समुपलब्धः । अत एकमादर्शमङ्गीकृत्यास्माभिविवरणं क्रियत इति, एतदवगम्य मूत्रविसंवाददर्शनाच्चित्तव्यामोहो न विधेय इति ।" (सूत्रकृताङ्गवृत्ति पृ० ३३६) इति वचनेन स्वकीयं मानसिक कष्टं स्पष्टमेवावेदितम् ।
एवं च चरिणकृद्भिः तेषां समक्षं यः पाठ प्रासीत् तदनुसारेण चूणिविरचिता, वृत्तिद्भिः शीलाचार्यैस्तु तेषां समक्षं य पाठ आसीत् तदनुसारेण टीका विरचिता । तत उभयोः पाठयोराचाराङ्गसूत्रस्य प्रथमे श्रुतस्कन्धे क्वचित् क्वचित् स्वल्पो भेदो दृश्यते, द्वितीये श्रुतस्कन्धे तु भयान् पाठभेदः, तत्रापि दशमाध्ययनादारभ्य अनेकेषु स्थानेषु अतीव अतीव पाठभेदो दृश्यते । वृत्तिकृच्छीलाचार्यानसृतपाठपरम्परापेक्षया प्राचाराङ्गणिकृदनुसृता पाठपरम्परातीव प्राचीना प्रायः शोभनतरा च वर्तते। सम्प्रति या आचाराङ्गसूत्रस्य पाठपरम्परा हस्तलिखितादर्शेष दृश्यते सा वृत्तिकृदनुसृतपाठपरम्परयैव प्रायशः संवदति। चूणिकृदनुसृतपाठपरम्परासम्बद्धा बहव आचारांगसूत्रप्रतीकाश्च णों समपलभ्यन्ते, तदनुसारेण चूणिकृदभिमताः पाठभेदाः, श्रीमहावीरजैनविद्यालयप्रकाशित प्राचारागसत्रे टिप्पणेष विस्तरेण दशिता इति तत्रैव विलोकनीयाः विशेषतो जिज्ञासुभिः ।
किञ्चान्यत्, आचाराङ्गसूत्रस्य द्वितीये श्रुतस्कन्धे द्वितीयायां चूलायां सप्तककाख्यानि सप्ताध्ययनानि वर्तन्ते तत्र चूणिकृता चतों 'रूप'सप्तककः पञ्चमश्च 'शब्द'सप्तकको निर्दिष्टो व्याख्यातश्च तथा, शीलाचार्यादिभिर्वृत्तिकारस्तु चतुर्थः 'शब्द'सप्तककः पञ्चमस्त 'रूप'सप्तकको निर्दिष्टस्तथैव व्याख्यातच, अतोऽत्र चूणि-वृत्तिनिर्दिष्टयोः पाठयोर्मध्ये परस्परमत्यन्तं भेदो वर्तते । द्वितीये श्रुतस्कन्धे षोडशे भावनाध्ययने चूर्णिकृता व्याख्यातः 'छिन्नसोते निरुवलेवे कंसपादी व मुक्कतोये' इत्यादि यान् पाठः सम्पति भावनाध्ययने नोपलभ्यते, भावनाध्ययनप्रान्तभागे चूर्णिकृता व्याख्याताः 'रियासु नित्यं समितो सता जते' इत्यादयः षड् गाथा अपि सम्प्रति भावनाध्ययने न दृश्यन्ते । जिज्ञासुभिर्महावीरजैनविद्यालयप्रकाशितमाचाराङ्गसूत्रं द्रष्टव्यम् ।
केनचिदंशेन दिगम्बरैस्तुल्यः केनचिच्चांशेन श्वेताम्बरैस्तुल्यो यापनीयसंघोऽपि पुरातनकाले आसीत् । यापनीयसंघस्य भूयांसो ग्रन्था मन्दिर-मादिकं च सम्प्रति दिगम्बरसंघे समाविष्टम् । यापनीयसंघे दिगम्बरसंघे वा प्राचाराङ्गस्य विभिन्ना विशिष्टा वा पाठपरम्परा
मीदित्यपि दिगम्बरेष बहमतस्य मूलाराधनाग्रन्थस्य अपराजितसूरिविरचिताया' विजयोदयायाष्टीकाया अवलोकनात प्रतीयते । तथाहि तत्तुलना
१. स्थानाङ्गसूत्रे तु नवमेऽध्ययने जहा भावणाए इति भावनाध्ययनस्थस्यास्य पाठस्यातिदेशो दृश्यते ।। २. दृश्यतां स्त्रीनिर्वाण-केवलि-भुक्तिप्रकरणप्रस्तावना ॥ ३. अयं टीकाकारो दिगम्बरः, प्रासङ्गिकवस्त्रपात्रादिस्वीकाराद् यापनीयसंघानुयायी वा प्रतीयते । तथा चायं तट्टीकागतः पाठ:-- ___ "अथैवं मन्यसे पूर्वागमेषु वस्त्रपात्रादिग्रहणमुपदिष्टम् । तथाहि प्राचारप्रणिधौ भणितम्-'प्रतिलिखेत् पात्रकम्बलं ध्रुवम्" धुवं च पडिलेहेज्जा जोगसा पायकम्बलं। दशवै०८।१७] इति। असत्सु पात्रादिषु कथं प्रतिलेखना ध्रुवं क्रियते ? आचारस्यापि द्वितीयोऽध्यायो लोकविच (ज? )यो नाम, तस्य पञ्चमे उद्देशे एवमुक्तम्-“पडिलेहणं पादपुंछणं उग्गहं कडासणं अण्णदरं उवधि पावेज्ज" इति । तथा वत्थेसणाए वृत्तं-"तत्थ ए (ये) से हिरिमणे सेगं वत्थं वा धारेज्ज पडिलेहणगं बिदियं । तत्थ ए से जुग्गिदे दे(?) से दुवे वत्थाणि धारिज्ज, पटिलेहणगं तदियं । तत्थ ए से परिस्सहं अणधिहासस्स तोवत्थाणि धारेज्ज पडिलेहणं चउत्थं ।" तथा पायेसणाए कथितं। --"हिरिमणे वा जग्गिदे वा विअण्णगे वा तस्स णं कप्पदि वत्थादिकं पादं चारित्तए" इति । पुनश्चोक्त तत्रैव-"अलाबुपत्तं वा दारुगपत्तं वा मट्टिगपत्तं वा अप्पपाणं अप्पस (ह)रिदं तथाप्पकारं पात्र लाभे सति पडिग्गहिस्सामि" इति । वस्त्र-पात्रे यदि न ग्राह्ये, कथमेतानि सूत्राणि नीयन्ते ? भावनायां चोक्तम्-"वरिसं चीवरधारी तेण परमचेलके तु जिणे' इति । तथा सूत्रकृतस्य पुण्डरीकेऽध्याये कथितम्-"ण कहेज्जा धम्मकहं वत्थपत्तादिहेदु" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org