Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas
View full book text ________________
लाला सुन्दरलाल जैनः
शिताः । अस्मिन् महति कार्येऽद्यत्वेऽस्य व्यवसायगृहस्याधिष्ठातॄणां श्रीमतां शान्तिलालमहाभागानां, सोत्साहानां कुशलानामेषामात्मजानाञ्च भूयान् योग आसीत् । साम्प्रतं ते कुलक्रमागतं प्रकाशनकार्यं परमया निष्ठयाऽनुभूतियुतया धियाऽनुतिष्ठन्ति ।
समाजोन्नयनाय विद्याप्रसाराय प्राच्यसंस्कृतिप्रचाराय चास्य महान्त्याश्चर्याणि श्रूयन्ते । सामाजिकसंस्थानेम्यो धार्मिकसंस्थाभ्यश्चानेन भूरि द्रव्यं वितीर्णम् । अर्थानामर्जने, अजितानाञ्च सम्यग् वितरणेऽनेन स्वं कौशलं प्रशितम् । औचित्यमवगम्यवार्थिनामिष्टपूतिविहिताऽनेन । वृत्तिभाजोऽनेके छात्राः साम्प्रतमुच्चपदासीना अस्य गौरवगाथा गायन्ति । श्री आत्मानन्दजनसभायाः सदस्यत्वेन, दिल्लीश्रीसङ्घस्य प्रमुखनेतृत्वेन, श्री प्रात्मानन्द जैन विद्यालयस्याद्यसंस्थापकत्वेन, 'हस्तिनापुरतीर्थकमेटी हस्तिनापुर', 'श्री आनन्दजी कल्याणजी बोर्ड अहमदाबाद,' 'श्वेताम्बर जैन तीर्थसभा वाराणसी' 2500 महावीरनिर्वाणोत्सवसभा दिल्ली, प्रभृतीनां सदसां सदस्यत्वेन च चिरस्मरणीयमस्य नाम जातम् ।
जैनधर्मेऽस्य कुलक्रमागता प्रगाढा निष्ठा । अयं हि तत्रभवतामाचार्यप्रवराणां श्री 1008 विजयवल्लभसूरीणां परमभक्तः, एवमेव निखिलस्य विद्वद्वर्गस्यापि । साधुप्रकृतिरयं प्रकाशनसंस्थानकार्येषु नितरां सक्तोऽप्यसक्त इवासीत् । ऋषीणां मुनीनां सम्पर्कमासाद्यास्य बहुगामिनी धी नास्रोतोभ्यो ज्ञानजितवती । व्यवसायव्यापृतोऽपि समय विभागेन प्रातःसायमात्मचिन्तनपरोऽभूत् । अपूर्व एव कश्चित्प्रभावोऽस्य सविधेऽन्वभूयत जनेन । एतद्गोष्ठ्या प्रभाविता जना अस्य दाक्षिण्यं सौजन्यमौदार्य गाम्भीर्यममन्यन्ततराम् ।
अस्य निधनेन न केवलं जैनसमाजस्य बहुमूल्यं रत्नं विलुप्तम्, अपितु मानववर्गस्यादर्शमानवो विनष्टः । एतादृशा जनाः कालत्रितयेऽपि विरला एव जायन्ते । धर्मनिष्ठः समाजोत्कर्षाभिलाषी जनप्रियः सत्यवक्ता भारतीयसाहित्यस्य प्रकाशने प्रचारे च सततं कृतप्रयासोऽयं महानुभावो जैनसमाजे व्यावसायिकक्षेत्रे बुद्धिवादिक्षेत्रे च चिरस्मरणीयः स्थास्यति ।
शासनदेवश्चास्य मायामोहानुपहितं चैतन्यं शाश्वतशान्ति नयेदिति प्रार्थयामहे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 764