Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 10
________________ लाला सुन्दरलाल जैनः स्थिरप्रतिज्ञस्य परोपकारिणो धर्मकर्मनिष्ठस्य लाला सुन्दरलाल महोदयस्यास्मिन् 1978 वर्षे जनवरीमासे त्रयोविंशे दिवसेऽतकितोपगतं निधनं न केवलं बन्धुजनस्य, परं तत्सम्पर्कवतो निखिलस्य विद्यावतो मानवसमुदायस्य महतीं व्यथां जनयति। शोकाकुलस्य परिवारस्यैव न क्षतिरियम्, अपितु निखिलस्य सहृदयवर्गस्य, यस्याः पूर्ति केवलं कठिना परमसम्भवैव। अयं महाभागः प्राचीनर्षिवत् संस्कृतसेवापरायण आसीत् । सत्यमेवायं “मोतीलाल बनारसीदास” इति नाम्ना लब्धख्याते: प्रकाशनसंस्थानस्याधारस्तम्भ आसीत् । स्वयं प्रकाशितेन साहित्येन भारतीयसंस्कृतेर्धर्मदर्शनयोश्च देशे विदेशे प्रसारमकरोत् । तद्द्वारा प्रकाशिताः सर्वे ते ग्रन्था विश्वसाहित्यस्यामूल्यनिधयो गण्यन्ते । कर्मयोगिनोऽस्य निस्स्वार्थभावेन परिपोषितेयं प्रकाशनसंस्था साकारा स्मृतिः सजाता। चिरस्मरणीयस्य कर्मयोगिनोऽस्य स्तिसंवत्सरस्यकोनविंशतिशततमे वर्षे फरवरीमासे पञ्चदशे दिवसे पाञ्चनदराजधान्यां लवपुरे (लाहौर) नगरे 'ओसवाल' जातौ जन्माभूत् । अस्य पूर्वजः श्रीमान् बूटाशाहमहोदयस्तत्रभवतो महाराजरणजीतसिंहस्य रत्नपरीक्षाध्यक्ष आसीदिति कुलपरम्पराप्रसिद्धम् । सिक्ख राज्यभ्रंशादनन्तरमप्ययं महानुभावो ब्रिटिश राज्येऽसुलभं नगरनिगमसदस्यपदमलञ्चकारेति राजकीयपत्रेषु लिखितम् । एतत्संस्थानस्य संस्थापकस्त्वस्य पिता श्रीमान् मोतीलालमहोदय प्रासीत् । अयञ्च वंशपरम्परायातं रत्नव्यवसायमनुसरन्नपि लवपुरे प्राच्यविद्याग्रन्थप्रकाशनव्यवसायमारभत, तत्कार्यं च स्वं प्रियमात्मजं बनारसीदासमहाभागं न्ययुङ क्त । अल्पीयस्येव वयसि दिवङ्गते श्रीमति बनारसीदासमहाभागे नवोपात्तमदृढमूलमेतत्संस्थानकार्य द्रढियतुतदनुजं स्वतनयं सुन्दरलालमहाभागमादिशत् । अप्राप्तयौवनोऽप्ययं बालः स्वर्गतस्य ज्येष्ठभ्रातुस्तनयस्य शान्तिलालमहाभागस्य साहचर्येण प्राच्यग्रंथप्रकाशनकार्यमारभत । अथोपरते पितरि सर्वात्मना कार्यभारमुद्वहन् पण्डितभगवद्दत्तनिर्दिष्टया सरण्या श्रीमतां मजुमदारजायस्वालस्वरूपकैलेण्डजालीटामस. प्रभृतीनां विद्यावारिधिपयोनिष्णातानामनेकेषां विदुषां प्रशस्ताः कृतीः प्राकाशयत्, गुणग्राहिताञ्च बहुमन्यमानो व्यवसायमार्गे शुद्धाचारमवलम्ब्य तथा प्रावर्तत यथा स्वल्पैरेव वर्षेः प्रकाशनसंस्थाया दिशिदिशि यशः प्रासरत्, स्वयञ्च महता श्रमेण परमया च निष्ठया समुपाजितं प्राच्यविद्याप्रकाशकेष्वपूर्व यशोऽलभत ।। __सन् 1915 वर्षादारभ्य सन् 1928 वर्षपर्यन्तमयं प्रकाशनालयो महतीमुन्नतिमासन्नः । मुद्रणालयश्च प्रचुरं प्रसृतः । प्रकाशनसंस्थानस्य व्यवहारशुद्धता चर्चा च देशदेशान्तरेषु व्याप्ता । अस्य सेवाकार्यञ्च ईशवीये 1928 तमे वर्षे लवपुरेऽखिलभारतीयप्राच्यविद्यागोष्ठीसम्मेलनसभापतिपदमलङ कुर्वाणैस्तत्रभवद्भिर्महामहोपाध्याय डाक्टर हरप्रसाद शास्त्रिभिः सुष्ठु पलाषितम् । ई० 1930-1947 वर्षेषु एतद् व्यवसायगृहस्य भूयान्प्रचारो जातः । अस्यका शाखा बिहारप्रान्ते पटनानगरे संस्थापिता। तवायमाशैशवात्परिपालितमेकं बान्धवं प्रबन्धकार्ये नियुक्तवान् । बहुप्रसृतस्य व्यवसायस्योद्वहनाय स्वभ्रातृतनयं शान्तिलालमहाभागं नियुज्य निरीक्षणकार्य कुर्वाणः समाजोन्नयनकार्ये सविशेषमात्मानं व्यापारितवान् __अथ ईशवीये 1947 तमे वर्षे विधिवशाद् जाते देशभङ्गे, प्रवृत्ते भीषणे चोपप्लवे, दग्धे मुद्रणालये, वह्निसात्कृते च व्यवसायालये यथाकथञ्चिदात्मानं परिरक्षन् सपरिवारो वाराणसीमुपेतः तत्त्रक व्यवसायालयं मुद्रणालयं च संस्थाप्य प्रकाशनकार्य समारब्धवान् । अत्र निरन्तरेणौजसा, परया भक्त्या, अनुपमेनावधानेन रात्रिन्दिवं कार्यपरायणो व्यवसायालयं पुनरपि स्वं गौरवमलम्भयत । ततश्च ईशवीये 1957 तमे वर्षे मुख्यो व्यवसायकार्यालयोऽनेन महाभागेन दिल्लीनगर्यां संस्थापितः । तत्राखिलभारतीयप्राच्यविद्यागोष्ठीसम्मेलने सभापतिपदमल ङ् कुर्वाणाः श्रीमन्तो डा०एस०एल०अल्तेकर महोदया दिल्लीविश्वविद्यालयक्षेत्रे बंगलोमार्गेऽस्य संस्थानस्य नवनिर्मितं सुन्दरं बहुभूमिकं व्यवसायालयम् उद्घाटितवन्तः । तत आरभ्य अद्यावधि व्यतीतेषु विशेषु वर्षेषु महाभागेनानेन महता श्रमेणात्मा व्यापारितः । नगर्या उपकण्ठं नारायणाख्ये चौद्योगिकक्षेत्रे महान् मुद्रणालयः संस्थापितो यत्र प्राच्यविद्याग्रन्थाः प्रकाश्यन्ते। अत्र “सेक्रेड बुक्स् आफ दि ईस्ट, लिंग्विस्टिक सर्वे आफ इंडिया," "एन्शियन्ट इण्डियन ट्रेडिशन एण्ड माइथोलाजी" प्रभृतयो ग्रन्थमालाः प्रका Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 764