________________
प्रकाशक-विज्ञप्तिः
जैनसङ्के शास्त्रदृष्ट्याऽऽगमशास्त्रस्य भूयानुत्कर्ष इति विदितचरमेव विदुषाम् । भगवता महावीरस्वामिना जीवनकाले यदुपदिष्टं तदुत्तरवर्तिभिश्च जैनाचार्यैर्यदाचार्यपरम्परया गृहीतं तदत्र निवेशितम् । इत्थं पुण्यश्लोकस्य महनीयकीर्तेर्भगवतो महावीरस्य पुण्यवचसामागमशास्त्रेषु सङ ग्रहो जातः ।
सङग्रहात्मका एते पुण्यग्रन्था व्याख्यासहिताः पुरा प्राकाश्यमिताः कालान्तरेण च दुर्लभाः सजाताः । कदाचित् क्वचिदुपलब्धा अपि नेष्टसिद्धिकरा असंस्कृतपाठप्रचुरत्वात्संशोधनमपेक्षन्त इति मत्वा लालासुन्दरलालमहाभागास्तेषां प्रकाशनाय समुत्सुका आसन् । संशोधनकार्यविधये तत्रभवन्तमाचार्यवरं श्रीजम्बूविजयमुनि साग्रहं प्रार्थितवन्तः। तैश्च पुण्यात्मभिर्धर्मानुष्ठानपरैर्यथाकथञ्चिदधिगतसमय: सुश्रावकाग्रहेण स्वधर्माङ्गत्वेन च जैनागमशास्त्रस्य शुद्धिवृद्धिपत्रकादि परिशिष्टकार्य सम्पाद्य बहुपकृतं जिज्ञासूनाम् ।
प्राचाराङ्गसूत्रकृताङ्गसूत्रद्वयात्मकोऽयं प्रथमो भागः श्रीमति लालासुन्दरलालमहाभागे जीवत्येव मुद्रापितोऽभूत्, केवलमुद्घाटनविधिरेवावशिष्ट प्रासीत् । कालवशात्पूर्वमेव दिवङ्गतोऽसौ महाभाग इति तस्यानुपस्थितावेव ग्रन्थोऽयं प्रकाश्यते । शासनदेवश्च तदेषणां परिपुरयतु, जैनागम ग्रन्थमालां च निर्बाधं प्राकाश्यमियादिति परमकृपालु देवं प्रार्थयामहे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org