Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 9
________________ सम्पादकीयम् श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 7 // // सम्पादकीयम्॥ आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः / देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकंटीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्तकपूज्यपादाचार्यदेवेशश्रीमद्विजयरामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरं च प्रणम्य अयं ज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। "चरमतीर्थपतिश्रमणभगवच्छ्रीमहावीरस्वामिनः सकाशात् 'उप्पन्नेइ वा विगमेइ वा धुवेइ वा' रूपांत्रिपदीं प्राप्य बीजबुद्धिनिघानगणभृच्छ्रीसुधर्मस्वामी द्वादशाङ्गं रचितवान् / तस्मिन् प्रथममाचाराङ्गम्, तस्मिन् आचारप्ररूपणा यत'आचारःप्रथमोधर्म:' आचारः पञ्चधा, ज्ञानाचारो दर्शनाचारश्चारित्राचारस्तपआचारो वीर्याचारश्च / पञ्चाचारे चारित्राचारः प्रधानस्तथा चतुर्खनुयोगेष्वपि चरणकरणानुयोगः प्रधानतमः, शेषाणांतदर्थत्वात्, तदुक्तं 'चरणपडिवत्तिहेउंजेणियरे तिण्णि अणुओग' त्ति। ___ अन्यत्र अहिंसा परमो धर्मः। अहिंसाया आचाररूपत्वात् चारित्राचारे समावेशो भवति / आचारं विना धर्मो न भवति, तस्मात् द्वादशाङ्गेप्रथममाचाराङ्गमस्ति। यो जीवं न जानात्यजीवं च न जानाति स अहिंसारुपं धर्म कथं कुर्यात् तस्मात् जीवस्य किं स्वरूपं तथा केन शस्त्रेण तस्य हिंसा भवतीत्यादिज्ञेयम्, तस्मात् श्रीआचाराङ्गे प्रथमश्रुतस्कन्धे प्रथमं सप्तोद्देशकात्मकं शस्त्रपरिज्ञाऽध्ययनम् / प्रथमोद्देशके सामान्येन जीवस्य सिद्धिः प्ररूपिता। द्वितीयात् सप्तमोद्देशकं यावत् यथाक्रमं पृथ्व्यप्तेजोवनस्पतित्रसवायुजीवानां भेदाः सिद्धिस्तच्छस्त्रंच निरूपितम्।। शस्त्रंचस्वकायपरकायभेदभिन्नं भवति, जीववधे बन्धं विरतिं च प्रतिपाद्य चारित्रं यथा संपूर्णभावमनुभवति तद् द्वितीयाऽध्ययने उपदिश्यते / जीवरक्षापरिणामवतस्तद्रक्षापरिणामपरिपालनार्थमारोपितपञ्चमहाव्रतभारस्य साधोर्यथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तत्प्रतिपाद्यते। तस्मिन् प्रथमोद्देशके स्वजने अभिष्वङ्गोन कार्यः, द्वितीये संयमेऽदृढत्वं न कार्य

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 586