Book Title: Abhidhan Rajendra kosha Part 5
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १६२२ ) अभिधानराजेन्द्रः ।
भोयण
एतदनन्तरोक्तं प्रकटभोजनं दुष्टं दोषवत् यस्माद्यतो हेतोर्निदर्शितं - प्रतिपादितं शास्त्रे - श्रागमे ततस्तस्मात्यागः परिहारोऽस्य प्रकटभोजनस्य युक्तिमान् उपपत्तियुक्तः, अतो हे कुतीर्थिका यदि यूयं मुमुक्षवस्तदा भवतामपि प्रनमेव भोजनं कर्त्तुं युज्यत इति गतार्थ इति । हा०७ अष्ट० । उपस्थापिताय भोजनं दत्वा भुञ्जीतनिग्गंथेण य गाहावइकुलं पिंडवायपडियाए अणुष्पविट्ठेयं श्रनय अचिते असणिजे पाणभोयणे पडिग्गाहिए सिया, अत्थि आई व केह सेहतराए अणुवट्ठावियए, कप्पर से तस्स दाउं वा अणुप्पदाउं वा, नऽत्थि आई इत्थ केइ सेहतराए अणुवट्ठावियए, ता नो अप्पणा भुंजेज, नो अन्नेसिं दावए, एते बहुफासु पसे पडिलेहिता पमजित्ता परिट्ठावियव्वे सिया ।। १३ ।।
अस्य सूत्रस्य संबन्धमाहआहार एव पगतो, तस्स उ गहम्मि वलिया सोही । श्राह पुण असुद्धे, अचित्तगहिए इमं सुत्तं ॥ ४३० ॥ आहार एवानन्तरसूत्रे प्रकृतस्तस्य चाऽऽहारस्य ग्रहणे शोधिर्षर्शिता, यथा शुद्ध श्राहारो ग्रहीतव्यस्तथा भणितमिति भावः । 'श्रहश्च' कदाचित्पुनरशुद्धोऽचित्ताऽहारो गृहीतो भवेत्, तत्र को विधिरित्यस्यां जिज्ञासायामिदं सूत्रमारभ्यते ।
हवण सचित्तदव्वं, पडिसिद्धं दव्वमादिपडिसेहा । इह पुण सचित्तदव्वं, वारेति श्रणेसियं एसो ।। ४३१ ॥ अथवा पूर्वतरसूत्रेषु तत्र "नो कप्पति पव्वावित्तए ।" इत्यादि तु सचित्तद्रव्यं द्रव्याऽऽदिप्रतिषेधेन - द्रव्यं मण्डलाSSदिकं तदाश्रित्य प्रतिषेधो द्रव्यप्रतिषेधस्तेन श्रादिशब्दात् "बुट्टे मूढे" इत्यादिषु च भावाप्रतिषेधेन प्रतिषिद्धम् । इह पुनः प्रकृतसूत्रे सचित्तद्रव्यमनेषणीयं वारयति एषः ॥ ४३१ ॥ अनेन सम्बन्धेनाऽऽयातस्यास्य ( सूत्रस्य - १३ ) व्याक्या - निर्ग्रन्थेन गृहपतिकुलं पिण्डपातप्रतिशया अनुप्र विष्टेन ( अनतरे सि ) उन्नमोत्पादनैषणा दोषाणामम्यतरेण दोषेणादुष्टमनेषणीयमशुद्धमन्चित्तं निर्जीवं पानभोजनमनाभोगेन प्रतिगृहीतं स्यात्, तश्चोत्कृष्टं नयतस्ततः परित्यक्तं न शक्यते श्रस्ति चात्र कश्चित् शैक्षतरको लघुतरोऽनुपस्थापितकः अनारोपितमहाव्रतः, कल्पते, (से) तस्य निर्ग्रन्थस्य तस्मै शैक्षाय दातुमनुप्रदातुं वा, तत्र दातुं प्रथमतः, अनुप्रदातुं तेनान्यस्मिन्नेषणीये इसे सति पश्चात्प्रदातुम् । श्रथ नास्त्यत्र कोऽपि शैक्षतरको ऽनुपस्थापितकस्ततो मैवाऽऽत्मना भुञ्जीत न वा श्रन्येषां दद्यात्, किं का बहुप्राशुके प्रदेशे प्रत्युपेक्ष्य प्रसृज्य च परिष्ठापवितव्यं स्यादिति सूत्रार्थः ॥ १३ ॥
तु
अथ निर्युक्तिविस्तरःअनतरणेसणिअं, आउट्टिय गिरहणे तु जं जत्थ ।
भोगगहिते जयणा, अजतणदोसा इमे होंति ।४३२ ॥ teri garerssaratमेकतर दोष दुष्टमनेषणीयमाकुट्टिकया यो गृह्णाति श्राकुट्टिका नाम-स्वयमेव भोक्ष्ये, शैक्षस्य वा दास्यामि, यमुपेत्य ग्रहणे येन दोषेणाशुद्धं तमापद्यते । य
Jain Education International
For Private
भोयण
च यत्र दोषे प्रायश्चित्तं तत्तस्य भवति, अथानाभोगेन गृहीतं ततो यतनया शैक्षस्य दातव्यम् ।
यद्यतनया ददाति तत इमे दोषा भवन्तिमा सब्वमेयं मम देह-मलं, उक्कोसरणं च अलाहि मज्भं । किं वा ममं दिजति सब्वमेयं,
इश्चैव वृत्ते तु भणाति कोइ ॥ ४३३ ॥ तेनानेषणीयमिति कृत्वा शैक्षो ब्रूयात्मा सर्वमेतदनं भभक्क्रेन ममालं, किं वा सर्वमेतत् मम दीयते इति । एवं क्रं मम दत्त, अथोत्कृष्टमिति कृत्वा मे दीयते, तत्र उत्कृष्टेन शैक्षेणोक्ते कश्चिद्भणति -
एयं तुब्भं अहं ण कप्पती चउगुरुं च अणादी संका व अभिउग्गे, एगेण व इच्छियं होजा ।। ४३४ ॥
एतत्तव कल्पते, अस्माकं तु न कल्पते, एवं भगतश्चतुर्गुरुकम्, आशाऽऽदयश्च दोषाः, शङ्का वा, तस्य शैक्षस्याभियोगः कार्मणः, तद्विषया भवति, एकेन वा केनचिद् दी - यमानमीप्सितं भवेत्, तस्य च ग्लानत्वे यथाभावेन ज्ञाते सति द्वितीयशैक्ष उड्डाहं कुर्यात् । इदमेव भावयति
कम्मोदऍ गेलो, दट्ठूण गतो करेज उड्डाहं । एगस्स वाऽवि दिले, गिलाण वमिऊण उड्डाहो ||४३५ ॥ कर्मोदयाद्यथाभावेनैव ग्लानत्वे जाते सति स चिन्तयेत् — एतै व्रतदेयं प्रतिभुञ्जतामिति कृत्वा ममाभियोग्यं दत्तम् एवं दृष्ट्रा ज्ञात्वा स भूयो गृहवासं गत उड्डाहं कुर्यादेतैः कार्मणं मम दत्तमिति, एकस्य वा दत्ते सति यदा ग्लानत्वं जातं तदा द्वितीयशैक्षः व्रतं वमित्वा प्रभूतजनसमक्षमुड्डाहं कुर्यात् ।
किं नश्चिन्तयित्वा स व्रतं वमतीत्याह
मा पडिगच्छति दिष्ां, से कम्मण तेण एस आगल्ले । ४३६ । जाव ण दिजति अम्हा, वि हु दाणि पलामि ता तुरियं ॥ मा प्रतिगमिष्यतीति बुद्धधा कार्मणमस्य दत्तं, तेनायमागलो ग्लानः सञ्जातः श्रतो यावदस्माकमपि कार्मणं न दीयते तावस्वरितमिदानीमहमपि पलाये ।
अथवा कश्चिदिदं ब्रूयात्
भत्ते मे ण कर्ज, कल्लं भिक्खं गतो व भोक्खामि ।
व देह-ममं इय अजते उज्झिमगदोसा ॥ ४३७|| भक्तेन [ मे ] मम न कार्य, कल्यं वा भिक्षां गतो या भोदयेअन्यद्वा भक्तं मां प्रयच्छत ( इय) एवमयतनया दीयमाने उज्झनिका पारिष्ठापनिका भवेत्, तस्यां च दोषाः कीटिकामक्षिकाऽऽदिविराधनारूपा मन्तव्याः ।
अथवा एकस्य ग्लानत्वे जाते अपरचिन्तयेत्ह णु ताव असंदेह, एस मोऽहं तु ताव जीवामि । बग्घा हु चरंति इमे, मिगचम्मगसंवुता पावा ।। ४३८ ॥
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1643 1644 1645 1646 1647 1648 1649 1650 1651 1652