Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 7
________________ चानित्यत्वात् कथञ्चित् कर्तृसिद्धिरिति । तत्र सूत्रकर्तुः परमपवर्गप्राप्तिः अपरं सत्त्वानुग्रहः, तदर्थप्रतिपादयितुः किं प्रयोजनमिति चेत् , न किञ्चित् , कृतकृत्यत्वात् , प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासोऽयुक्तः इतिचेत् , न, तस्य तीर्थकरनामगोत्रविपाकित्वात् , वक्ष्यति चें-"तं च कहं वेइज्जइ ?, अगिलाए धम्मदेसणादीहि" इत्यादिना । श्रोतॄणां त्वपरं तदर्थाधिगमः, परं मुक्तिरेवेति । कथम् ? ज्ञानक्रियाभ्यां मोक्षस्तन्मयं चावश्यकमितिकृत्वा, नावश्यकश्रवणमन्तरेण विशिष्टज्ञानक्रियावाप्तिरुपजायते, कुतः, तत्कारणत्वात्तदैवाप्तेः, तदवीप्तौ च पारम्पर्येण मुक्तिसिद्धेः, इत्यतः प्रयोजनवानावश्यकप्रारम्भप्रयास इति । तदभिधेयं तु सामायिकादि। संबन्धश्च उपायोपेयभावलक्षणः तर्कानुसारिणः प्रति, कथम् ?, उपेयं सामायिकादिपरिज्ञानं, मुक्तिपदं वा, उपायस्तु आवश्यकमेव वचनरूपापन्नमिति, यस्मात्ततः सामायिकांद्यर्थनिश्चयो भवति, सति च तस्मिन् सम्यग्दर्शनादिवैमल्यं क्रियाप्रयत्नश्च, तस्माच्च मुक्तिपदप्राप्तिरिति । अथवा उपोद्घातनियुक्तौ "उद्देसे निइसे य” इत्यादिना ग्रन्थेन सप्रपञ्चेन स्वयमेव वक्ष्यति। कश्चिदाह--अधिगतशास्त्रार्थानां स्वयमेव प्रयोज वयःशक्तिशीले इति तृन् , याजकादिभिरित्यस्याकृतिगणवाद्वा तृजपि.२ प्रयोजनं पर मुक्तिः, सा प्राप्तकेवलत्वात् 'मोक्षे भवे चे' ति वचनान्नोद्देश्या, अवश्यम्भाविनी च सेति कृतकृत्या. ३ प्रयासस्य तीर्थकृतो वा. ४ (गाथा १८५)५ ग्रन्थेन. ६ अल्पवक्तव्यत्वात् सूचीकटाहन्यायेनादावपर. ७ सूत्रार्थीभयागमवाच्यावबोधः. ८ परमपदानुकूला ९ आवश्यकश्रवणं १०-११ विशिष्टज्ञानक्रियावाप्तिः १२ आवश्यकस्य. १३ ज्ञानाद्यापादकक्रियादि १४ अपरप्रयो| जनं. १५ परप्रयोजनं १६ एवकारस्येष्टावधारणार्थत्वात् अपरप्रयोजनस्य नान्यच्छास्त्रमुत्तराध्ययनादि परस्याप्यसामायिकादिमतोऽभावात् मुक्तेर्नान्यः कोऽपि | उपायः १७ रचितं. १८ आवश्यकात् १९ चतुर्विंशतिस्तवादीनां. २० श्रद्धानुसारिणः प्रति.२१ धर्मोत्तरानुसारी व्यपोहवादी बौद्धः. dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 514