Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 13
________________ त्वरमल्पकालमितिपर्यायौ, चशब्दाद्यावद्रव्यभावि च, स्थाप्यत इति स्थापना, स्थापना चासौ मङ्गलं चेति समासः, तत्र स्वस्तिकादि स्थापनामङ्गलमिति । “भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥३॥” अस्यायं भावार्थः-'भूतस्य' अतीतस्य 'भाविनो वा' एण्यतो 'भावस्य' पर्यायस्य 'कारणं' निमित्तं 'यद्' एव 'लोके' 'तद् द्रव्यम्' इति द्रवति गच्छति ताँस्तान्पर्यायान् क्षरति "चेति द्रव्यं 'तत्त्वज्ञैः' सर्व स्तीर्थकृद्भिरितियावत सचेतनम् अनुपयुक्तपुरुषाख्यम् अचेतनं ज्ञशरीरौदि तथाभूतमन्यद्वा कथितं' आख्यातं प्रतिपादितमित्यर्थः। तत्र द्रव्यं च तन्मङ्गलं चेतिसमासः, तच्च द्रव्यमङ्गलं द्विधा-आगमतो नोआगमतश्च, तंत्र आगमतः खल्वागममधिकृत्य आगमापेक्षमित्यर्थः,नोआगमतस्तु तद्विपर्ययमाश्रित्य, तत्रागमतो मङ्गलशब्दांध्येता अनुपयुक्तो द्रव्यमङ्गलम् 'अनुपयोगो द्रव्य' मितिवचनात् , तथा नोआगमतस्त्रिविधं द्रव्यमङ्गलं, तद्यथा-ज्ञशरीरद्रव्यमङ्गलं १ भव्यशरीरद्रव्यमङ्गलं २ ज्ञशरीरभव्यशरीरव्यतिरिक्तं ३ द्रव्यमङ्गलमिति । तत्र ज्ञस्य शरीरं ज्ञशरीरं, शीर्यत इति शरीरं ज्ञशरीरमेव द्रव्यमङ्गलं ज्ञशरीरद्रव्यमङ्गलम्, आकृत्यन्तरे पूर्वाकारोच्छेदात्. २ नन्दीश्वरद्वीपादिस्थप्रतिमादि. ३ स्थाप्यमानापेक्षया,अन्यत्र तु तिष्ठतीति स्थापना.४ आदिना नन्दावादि. ५ भागमनोआगमाभ्यां विचारयिष्यमाणत्वानावार्थ इति । ६ वाशब्दस्य निपातानामनेकार्थत्वेन समुच्चयार्थत्वाद्भूतभविष्यतोवेति ज्ञेयं (चकारातभविष्यत्पर्यायमिति विशेषावश्यके) ७ विवक्षितस्य भावतया ८ "आगमकारणमाया देहो सहो य तो दव्वं" ति३०विशेषावश्यकवचनादुपादानादीनि विविधानि कारणानि. |९ इष्टावधारणार्थत्वाद्योग्यत्वसद्भाव इति ज्ञापयति । १० पर्यायस्य क्रमभावित्वात्पूर्वपर्यायान् क्षरति, भूतापेक्षया क्षरति, भविष्यदपेक्षया गच्छतीत्यपि ११ द्वादशाङ्गार्थप्ररूपणाकारित्वात्तेषाम्. १२ आदिना भव्यशरीरग्रहः. १३ ज्ञभव्यशरीरब्यतिरिक्तमप्रधानं कारणादि च. १४ युक्तिदर्शनपुरस्सरं दर्शितं गम्यस्वस्वरूपमेतदिति १५ पठिता. * उपलक्षणादनुपयुक्तानुष्ठानादि व्यतिरिक्तमङ्गलत्वात्तस्य. + पेक्षयेत्यर्थः १-४ ज्ञाता २ dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 514