________________
329
आओ संस्कृत सीखें 21. मोह आदि द्वारा क्रीड़ा के हेतु से मैं क्षण में रागी बन, क्षण मे विरागी, क्षण में क्रोधी और क्षण में शांत बना ।
हिन्दी का संस्कृत में अनुवाद 1. तथा कुर्वन् राजा तस्य राझ्या पुष्पावत्याऽवार्यत किन्तु तामपि स
नाऽजीगणत्। 2. हे आर्यपुत्र ! त्वं सर्वथा दुःखं मा कृथाः, अहमचिराद् भ्रातरं बोधयिष्यामि
त्वदीप्सितं च कारयिष्ये । 3. नमद्ग्रीवा यशोभद्रादयः शिष्या ऊचुः, भवता प्रथममस्मानपत्यसम्बन्धः
कथं न ज्ञापितः। 4. भूरिहर्षः सूरिरूचे, अपत्यसम्बन्धं ज्ञात्वा नूनं यूयं मणकेन मुनिनोपास्तिं
नाऽकारयिष्यत तस्माच्च स स्वार्थं व्यमोक्ष्यत । 5. तं रथं प्रव्राज्य मोदकादीष्टभोजनं यथारुचि वयमबूभुजाम । 6. राजाऽशोकस्तं बालमानाययत्तस्य च नाम सम्प्रतिरित्यकृत । 7. राजाऽशोकः, दशाहादनन्तरं सम्प्रति स्वराज्ये न्यवीविशत् । 8. कुमारस्तं लेखं वाचयामास वाचयित्वा च तूष्णीभूतः ॥ 9. चन्द्रगुप्तं विषं दत्त्वा कोऽपि न घातयेदिति हेतुना चाणक्येन स दिनं
प्रत्यधिकाधिकं विषाहारमभोज्यत । 10. मौर्यमाज्ञाप्य चाणक्येन सुबन्धुस्तस्य सचिवः कारितोऽभूत् ।