Book Title: Aagam 40 AAVASHYAK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 15
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [-], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: प्रत सूत्राक समाख्यातः, इन्दनादिक्रियानुभवनयुक्तेन्द्रादिवदिति । तत्र भावतो मङ्गलं भावमङ्गलम् , अथवा भावश्चासौ मङ्गलं चेति समासः, तच्च द्विधा-आगमतो नोआगमतश्च, तत्रागमतो मङ्गलपरिज्ञानोपयुक्तो भावमङ्गलं, कथमिह भावमङ्गलोपयोगमात्रात् तन्मयताऽवगम्यत इति, नह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव, दहनपचनप्रकाशनाद्यर्थक्रियाप्रसाधकत्वाभा-8 वाद् इति चेत्, न, अभिप्रायापरिज्ञानात्, संवित् ज्ञानम् अवगमो भाव इत्यनान्तरं, तत्र 'अर्थाभिधानप्रत्ययाः तुल्य नामधेयाः' इति सर्वप्रवादिनामविसंवादस्थानम्, अग्निरितिच यज्ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा व तज्ज्ञाने सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषांन्तरवद्वा, नचानाकारं तज्ज्ञानं, पदार्थान्तरवद्भिव-18 क्षितपदार्थापरिच्छेदप्रसाद, बन्धाद्यभावश्च, ज्ञानाज्ञानसुखदुःखपरिणामान्यत्वादू, आकाशवत्, न चानलः सर्व एव दहनाद्यर्थक्रियाप्रसाधको, भस्मच्छन्नादिना व्यभिचारात्, इत्यलं प्रसङ्गेन, प्रकृतमुच्यते-नोआगमतो भावमङ्गलम् आगमवर्ज ज्ञानचतुष्टयमिति, सर्वनिषेधवचनत्वान्नोशब्दस्य, अथवा सम्यग्दर्शन ज्ञानचारित्रोपयोगपरिणामो यः स नागम एव केवलः न चानागमः, इत्यतोऽपि मिश्रवचनत्वान्नोशब्दस्य नोआगमत इत्याख्यायते, अथवा अन्नमस्काराद्युपयोगः मानाधिकारे भावाधिकारे भावलक्षणसिद्धी वा. २ अर्धाभिधानप्रत्ययेतिन्यायादप्रिज्ञानस्यामिरूपत्वं, तदव्यतिरिक्तस्व ज्ञानुरपि, तथा सत्ति अग्निलक्षणवमिति शायते. ३ ज्ञानात्मनोयतिरिकत्वे. ४ ज्ञानात्मनोमदात्. ५ प्रदीपयज्ज्ञानम् , अन्धवज्ञानातिरिक्तः पुरुषः, प्रदीपहस्तरबंध निकटस्वाय. ६ समवायापेक्षया रटान्तान्तरं अन्तरापेक्षया बा. विषयवैशिषशून्य, तथाच ज्ञेयस्य भिन्नत्वं ज्ञानात्, ८ प्रसङ्गोऽनिष्टापत्तिः १ चकारो नोपल भेतेत्यनेन सह समुश्चयार्थः, ज्ञानात्मनो दे दूषणान्तरमेतदिति १० स्थादित्यध्याहार्यम्, 1 चजकान्तमणिव्यवहितादेमंदा, भमाच्छादिवदुपयोगरूपोऽपि न दाहकादिगुण इति तत्पम् । १२ नोशब्दस्ख पर्युदासप्रतिषेधार्थत्वादागमवश्य ज्ञानचतुष्टयमिति. * ज्ञानोपयुक्तो. दीप अनुक्रम ~ 14~

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 1736