________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [-], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
प्रत
सूत्राक
समाख्यातः, इन्दनादिक्रियानुभवनयुक्तेन्द्रादिवदिति । तत्र भावतो मङ्गलं भावमङ्गलम् , अथवा भावश्चासौ मङ्गलं चेति समासः, तच्च द्विधा-आगमतो नोआगमतश्च, तत्रागमतो मङ्गलपरिज्ञानोपयुक्तो भावमङ्गलं, कथमिह भावमङ्गलोपयोगमात्रात् तन्मयताऽवगम्यत इति, नह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव, दहनपचनप्रकाशनाद्यर्थक्रियाप्रसाधकत्वाभा-8 वाद् इति चेत्, न, अभिप्रायापरिज्ञानात्, संवित् ज्ञानम् अवगमो भाव इत्यनान्तरं, तत्र 'अर्थाभिधानप्रत्ययाः तुल्य
नामधेयाः' इति सर्वप्रवादिनामविसंवादस्थानम्, अग्निरितिच यज्ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा व तज्ज्ञाने सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषांन्तरवद्वा, नचानाकारं तज्ज्ञानं, पदार्थान्तरवद्भिव-18
क्षितपदार्थापरिच्छेदप्रसाद, बन्धाद्यभावश्च, ज्ञानाज्ञानसुखदुःखपरिणामान्यत्वादू, आकाशवत्, न चानलः सर्व एव दहनाद्यर्थक्रियाप्रसाधको, भस्मच्छन्नादिना व्यभिचारात्, इत्यलं प्रसङ्गेन, प्रकृतमुच्यते-नोआगमतो भावमङ्गलम् आगमवर्ज ज्ञानचतुष्टयमिति, सर्वनिषेधवचनत्वान्नोशब्दस्य, अथवा सम्यग्दर्शन ज्ञानचारित्रोपयोगपरिणामो यः स नागम एव केवलः न चानागमः, इत्यतोऽपि मिश्रवचनत्वान्नोशब्दस्य नोआगमत इत्याख्यायते, अथवा अन्नमस्काराद्युपयोगः
मानाधिकारे भावाधिकारे भावलक्षणसिद्धी वा. २ अर्धाभिधानप्रत्ययेतिन्यायादप्रिज्ञानस्यामिरूपत्वं, तदव्यतिरिक्तस्व ज्ञानुरपि, तथा सत्ति अग्निलक्षणवमिति शायते. ३ ज्ञानात्मनोयतिरिकत्वे. ४ ज्ञानात्मनोमदात्. ५ प्रदीपयज्ज्ञानम् , अन्धवज्ञानातिरिक्तः पुरुषः, प्रदीपहस्तरबंध निकटस्वाय. ६ समवायापेक्षया रटान्तान्तरं अन्तरापेक्षया बा. विषयवैशिषशून्य, तथाच ज्ञेयस्य भिन्नत्वं ज्ञानात्, ८ प्रसङ्गोऽनिष्टापत्तिः १ चकारो नोपल भेतेत्यनेन सह समुश्चयार्थः, ज्ञानात्मनो दे दूषणान्तरमेतदिति १० स्थादित्यध्याहार्यम्, 1 चजकान्तमणिव्यवहितादेमंदा, भमाच्छादिवदुपयोगरूपोऽपि न दाहकादिगुण इति तत्पम् । १२ नोशब्दस्ख पर्युदासप्रतिषेधार्थत्वादागमवश्य ज्ञानचतुष्टयमिति. * ज्ञानोपयुक्तो.
दीप
अनुक्रम
~ 14~