Book Title: Aagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७],
-------- मूलं [१६६] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
A नान्यवतिष्ठन्ते, केवलं ये आभियोगिका देवास्ते तथाविधनामकर्मोदयवशात् समानजातीयानां हीनजातीयाना वा | देवानां निजमहिमातिशयदर्शनार्थमात्मानं बहुमन्यमानाः प्रमोदभृतः सततवहनशीलेषु विमानेष्वधः स्थित्वा २ केचित् ॥ सिंहरूपाणि केचिद् गजरूपाणि केचिदुपभरूपाणि केचित्तुरङ्गमरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुपपन्नं, तथाहि-यथेह कोऽपि तथाविधाभियोग्यनामकर्मोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां
वा पूर्वपरिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य सम्मत इति निजमाहात्म्यातिशयदर्शनार्थं सर्वमपि स्वोचितं कर्म || 18|| प्रमुदितः करोति तथा आभियोगिका अपि देवास्तथाविधाभियोग्यनामकर्मोपभोगभाज: समानजातीयानां हीनजाती-|| ४ यानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इत्येवं निजमाहत्म्या
तिशयदर्शनार्थमात्मानं बहुमन्यमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्तीति । अथैषामेव षोडशसहस्राणां व्यक्ति-18 | माह-'चन्दविमाण'इत्यादि, चन्द्र विमानस्य पूर्वस्या-यद्यपि जङ्गमस्वभावेन ज्योतिष्काणां सूर्योदयाङ्कितैव पूर्वा न संभवति ||४|| चारानुसारेण परापरदिपरावर्तसम्भवात् तथापि जिगमिषितदिशं गच्छतोऽभिमुखा दिक् पूर्वेति व्यवहियते, यथा 8 क्षुतदिक, सिंहरूपधारिणां देवानां चत्वारि सहस्राणि पौरस्त्यां वाहां-पूर्वपार्श्व वहन्तीति सम्बन्धः, तेषामेव विशे-18 पायाह-'सेआण'मित्यादि, श्वेताना-श्वेतवर्णानां तथा सुभगाना-सौभाग्यवतां जनप्रियाणामित्यर्थः, तथा सुप्रभाणां-|| | मुष्ठु-शोभना प्रभा-दीप्तिर्येषां ते तथा तेषां, तथा शशतलं-शंखमध्यभागो विमलनिर्मला-अत्यन्तनिर्मलो यो दधि-18
Daesese eceaseases
~1056~

Page Navigation
1 ... 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097