Book Title: Aagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 1060
________________ आगम (१८) वक्षस्कार [७], मूलं [ १६६ ] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१८] उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ।।५२८ ॥ “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) तश्वेतवर्णाश्रये मणिरलमये लोचने येषां ते तथा तेषां तथा अभ्युद्गतानि - अत्युन्नतानि मुकुलमल्लिकेव - कोरकावस्थ | विचकिलकुसुमवद् धवलानि तथा सदृशं समं संस्थानं येषां तानि तथा, निर्व्रणानि व्रणवर्जितानि दृढानि कृत्स्नस्फ टिकमयानि सर्वात्मना स्फटिकमयानीत्यर्थः सुजातानि - जन्मदोषरहितानि दन्तमुसलानि तैरुपशोभितानां, तथा विमलमणिरलमयानि रुचिराणि पर्यन्तचित्ररूपकाणि अर्थात् कोशीमुखवर्त्तीनीत्यर्थः तैर्विराजिता या काञ्चनकोशी पोलिकेति प्रसिद्धा तस्यां प्रविष्टा दन्ताम्रा अग्रदन्ता येषां ते तथा तेषां पदव्यत्ययः प्राकृतत्वात्, तथा तपनीयम| यानि विशालानि तिलकप्रमुखाणि यानि मुखाभरणानि आदिशब्दाद्रलशुण्डिकाचामरादिपरिग्रहस्तैः परिमण्डितानां, | तथा नानामणिरलमयो मूर्द्धा येषां ते तथा ग्रैवेयेन सह बद्धानि गलकवरभूषणानि - कण्ठाभरणानि घण्टादीनि येषां ते तथा ततः पदद्वयकर्मधारयस्तेषां तथा कुम्भयुगलान्तरे - कुम्भद्वयमध्ये उदितः- उदयं प्राप्तः तत्र स्थित इत्यर्थः, तथा वैडूर्यमयो विचित्रदण्डो यस्मिन् स तथा, निर्मलवज्रमय स्तीक्ष्णो लष्टो - मनोहरोऽङ्कुशो येषां ते तथा तेषां तथा तपनीयमयी सुबद्धा कक्षा - हृदयरज्जुर्येषा ते तथा, दर्पिता -- सञ्जातदपस्ते तथा, बलोद्धुरा - बलोत्कटास्ते तथा, | ततः पदत्रयस्य पदद्वयमीलने २ कर्मधारयस्तेषां तथा विमलं तथा घनं मण्डलं यस्य तत् तथा, वज्रमयलालाभिर्ललितंश्रुतिसुखं ताडनं यस्य तत् तथा, नानामणिरत्नमय्यः पार्श्वगाः पार्श्ववर्त्तिन्यो घण्टा अर्थाघुघण्टा यस्य तत् तथा एवंविधं रजतमयी तिर्यग्वद्धा या रज्जुस्तस्यां लम्बितं यद् घण्टायुगलं तस्य यो मधुरस्वरः तेन मनोहराणां, तथा Ja Eco intematend Fir P&Permalise City ~ 1059~ वक्षस्कारे चन्द्रादिविमानवा हकाः सू. १६६ ||५२८||

Loading...

Page Navigation
1 ... 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097