Page #1
--------------------------------------------------------------------------
________________ 9720 DESSSSSSSSETICESTERD 173164 are श्री // श्री जिनायनमः // * // श्री चारित्रविजयगुरुभ्यो नमः // // सुभद्राचरित्रं // (कर्ता-श्रीशुभशीलगणि) ..2054 सालAR. ARD PORobjpmPart Deeeeeee छपाबी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा श्रीजैनभास्करोदय पिन्टिंग प्रेस-जामनगर. सने 1929 मूल्य रु. 0-8 मां. 1986 Serving jinshasan MAHALEGISIBIGISSIBEEDICISSIESED 073164 gyanmandir@kobatirth.org MEET P.P.AC.GunratnasuriM.S.
Page #2
--------------------------------------------------------------------------
________________ सुभद्रा चरित्रं. // श्री जिनाय नमः॥. // श्रीचारित्रविजयगुरुभ्यो नमः // // अथ श्रीसभद्राचरित्रं प्रारभ्यते // (कर्ता-श्रीशुभशीलगणी) छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) शोलं पालयतां पुंसां / शुद्धभावेन संततं // वशीभवंति गोर्वाणाः / सुभदाया इवाचिरात् // 1 // वसंतपुराख्ये नगरे जितशत्रुनामा राजा राज्यं करोतिस्म. तस्य नृपस्य जैनधर्मपालको जिनमतिनाकमा श्रेष्ठो मंत्रिप्रवरो विद्यते, तस्य च परमाहती श्राविका तत्वमालिनीनाम्नी प्रियास्ति. तयोः शुभस्वप्न | सूचिता सुभद्राख्या पुत्री बभूव. क्रमेण संप्राप्तयोवना सा देवांगनेवातिमनोहररूपलावण्यधारिणी यूनां मनांसिव्याकुलयामास. सर्वकलाकलिताऽसो जैनधर्मैकलीनमानसा सर्वदादेवपूजा गुरुभक्ति प्रतिक्रमणादिका P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust
Page #3
--------------------------------------------------------------------------
________________ .. मुभद्रा चरित्रं // 2 // // 2 // IA र्यदक्षा बभूव. अथ स जिनमतिः श्रेष्ठो तां निजसुतां सुभद्रां केनचिजैनधर्मविदा पुरुषेण सह परिणा ययितुं समीहते. अथान्यदा चंपापुरवास्तव्यो बौधधर्मवासितांतःकरणो बुद्धदासाख्यो युवा व्यापारी व्यापारार्थ तत्र वसंतपुरनगरे समाययो. तत्र स विविधक्रयाणकव्यापारं कुर्वन् भूरिधनं समर्जयतिस्म. अथै| कदा स बुद्धदासो मार्गे ब्रजंती, सखीसमूहोपेतां, रूपनिर्जितसुरांगनां च तां सुभद्रां विलोक्य मदनातुरः / | कंचिन्नरं पप्रच्छ, भो पुरुषोत्तम! कस्येयं पुत्री! च सा विवाहितास्ति.? वा कुमारिकास्ति.? तेनोक्तं भो बुद्धदास! इयं जिनमत्यभिधस्य श्रेष्ठिनः सुभद्राख्या तनया वर्तते, किंच सायापि कुमारिकैवास्ति. तस्या जनकश्चक कता जैनधर्मविदा शुद्धश्रावकेण सहैव परिणाययितुं समीहते, नान्यस्य परधर्मिणः कस्यापि पुरुस्य स निज पुत्री दास्यति. तत् श्रुत्वा स बुद्धदासो दथ्यो, अथाहं कथंचिदपि जैनीभूयतां परिणयामि, यतो मे मानसं कि तस्यामेव विलग्नमस्ति.जैनीभूतं च मां विलोक्य सजिनमतिश्रेष्ठयपि सुखेनेमां निजपुत्री सुभद्रां दास्यति. इति विचिंत्य स बुद्धदासो जिनधर्मसंबंधिशास्त्राणि पठित्वा सासायिकप्रतिक्रमणादिजैनधर्मक्रियासु कुशलो बभूव. एवं शुद्धां श्राद्ध सामाचारी शिक्षयित्वा सुश्राधीभूय स जिनमंदिरेषु गत्वा विधिना SVEEVEGVEGVEVE Eve eve PP.AC.Gunratnasuri M.S Jun Gun Aaradhak Trist
Page #4
--------------------------------------------------------------------------
________________ सुभद्रा चरित्रं // 3 // ॥३॥का || देवपूजां करोति, ततो धर्मशालायां गत्वा जैनमुनिपार्श्वे धर्मशास्त्रश्रवणं करोति. एवं नित्यं धर्म क्रियां कुर्वतं तं तादृशं सुश्रावकं विलोक्य ज जिनमतिः श्रेटी निजगृहे देवपूजाद्यर्थमाकारयामास. एवं श्रेष्ठिसमाहूतः स बुद्रदाप्तस्तत्र श्रेटिगृहेऽभ्येत्य यतनापूर्वकं निजशरोरं प्रक्षाल्य चंदनशतपत्रादिभिर्जिनबिंबानि पूजयामास, ततो मधुरस्वरैर्निजहृदयात् कृत्रिमं शुद्धभावं दर्शयन् स जिनेशानां स्तवनं चकार. ततश्चात्याग्रहपूर्वकं श्रेष्ठिना भोजनाय निवेशितः स बुझदासः भोजनं परिवेषयतः श्रेष्ठिनो जगो, भो श्रेष्ठिन् ! अद्य मम विकृतियुतं भोजनं न कल्पते, मयाद्याचाम्लमेव कर्तव्यमस्ति, इति श्रुत्वा श्रेष्ठिना निर्विकृतिकं रुक्षान्नं तस्मै परिवेषितं. तन्मिताहारं विधाय प्रासुकं जलं चक पीत्वा तेन तत्रैव स्थितेन चतुर्विधाहारप्रत्याख्यानं पुनः सूर्योदयावधि विहितं. एवं तं.जैनधर्मकुशलं, की क क्रियापात्रं, पदे पदे च जीवयतनापरं विलोक्य तस्य तया मायया वंचितः श्रेष्ठी चिंतयामास, अहो ! KE अयं धर्मात्मा युवा पुरुषो मम पुत्र्याः सुभद्रायाः परिणयनाथ सर्वथा योग्योऽस्ति. यतः-जिनेंद्रधर्मवेत्तारं / / दातारं विनयान्वितं // कर्तारं यतनां सर्व-जीवेषु करुणान्वितं // 1 // सरलं स्ववपूरूप-लक्ष्मीनिर्जित / Jun Gun Aaradhak Trust PP Ac Gunratnasun MS
Page #5
--------------------------------------------------------------------------
________________ सुभद्रा चरित्रं मन्मथ // पुत्र्यर्थं विरला एव / लभंते वरमंगिनः // 2 // युग्मं // इत्यादि विचिंत्य स्वहृदये प्रमुदितः स श्रेष्ठी तं बुद्धदासंप्रति प्राह, भो बुद्धदास! त्वं धर्मज्ञो गुणज्ञश्वासि, इयं मे कन्या सुभद्रा सांप्रतं यौवनाभिमुखा जातास्ति, ततो यदि त्वमेनामंगीकुर्यास्तदा लक्ष्मीकृष्णयोरिव, शशिरोहिण्योरिव युवयोरभिन्नप्रेमरसपूर्णः संबंधो भवेत्. एवंविधां श्रेष्ठिनः प्रार्थनां निशम्य निजहृदि हृष्टेन तेन बुद्धादासेनापि तदीयवचः स्वीकृतं. ततो नैमित्तिकैरादिष्टे निकटे शुभदिवसे श्रेष्ठिना महोत्सवपूर्वकं तेन बुद्धदासेन [] 2 सह निजपुत्र्याः सुशीलायाः सुभद्राया विवाहो विहितः. एवं तां सुभद्रां परिणीय स तयासह विविधभो- 1 गविलासाननुभवन् स्थितः. कियदिनानंतरमुपार्जितभूरिद्रव्यः स बुद्धदासः सकलं श्वशुरादिवर्गमुत्कलाप्य स्वपुरंप्रति यियासुर्निजपल्या सुभद्रया सह ततः प्रस्थानमकरोत्. क्रमेण कुशलेन मार्गमुल्लंघयन् स स्वनगरे समेत्य मातापित्रोर्मिलितः. परमानंदं प्राप्ताभ्यां मातापितृभ्यामपि गृहे महोत्सवः कृतः. सुभद्रापि का निजश्वभूपादयोः पतित्वा निजविनयं प्रकटीचकार, अथ द्वितीयदिने प्रातरुत्थाय सुभद्रा स्नानशुचीभूता जिनेंद्रभवने गत्वा जिनबिंबानि प्रणम्य, जैनमुनिभ्यश्चापि वंदनं विधाय गृहे समागता. तदा श्वश्रूस्ता PP.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust
Page #6
--------------------------------------------------------------------------
________________ मूल // 5 // प्रति जगो, वत्से ! अस्माकं कुले तु बुद्ध एव देव आराधनोयो विद्यते, अतस्त्वयाथो जिनमंदिरादिष्वसुभद्रा न्यत्र कुत्रापि न गंतव्यं. तत् श्रुत्वा वजाहतेव दुःखितहृदया सा सुभद्रा दथ्यौ, अहो ! कपटं विधायाचरित्रं 2 हमनेन भर्चा परिणीता, नूनमेष बोद्धधर्मानुयायो वर्तते, अथ किं कर्तव्यं ? परं यद्भावि तद्भवतु, मया | // 5 // तु निजहितमेवाचरणीयं, यतः-सर्वथा स्वहितमाचरणी / किं करिष्यति जनो बहुजल्पः // विद्यते स / न हि कश्चिदुपायः / सर्वलोकपरितोषकरो यः // 1 // अथ श्वश्रूवचनमवगणय्य सा सुभद्रा तु जिनमदिरेषु जिनबिंबान्येव नंतुं प्रयाति. जैनमुनिभ्यश्च वंदनं विदधाति. एवं तां निजाज्ञामवगणयंती निरीकक्ष्याभिभूता श्वश्रूर्यथा तथा वदति, निरपराधां च तां विगोपयति: तद् दृष्ट्वा बुद्धदासेन सा निज़प्रिया का सुभद्रा पृथग्गृहे स्थापिता, तत्र च सुखं स्थिता सा जिनेंद्र पूजयंती, जैनमुनींश्च प्रतिलाभयंती धर्मकाकि येष्वेव तत्परा बभूव. इतोऽन्यदा कश्चिजिनकल्पो जैनसाधुर्मासक्षपणपारणे एकाक्येव तस्याः सुभद्राया गृहे भिक्षार्थ समायातः. तं मुनींद्र प्रतिलाभयंती सुभद्रा चक्षुःपतिततृणेन पीडथमानं विलोक्य विचारयामास, अहो अयं जिनकल्पविहारी मुनींद्रो निजचक्षुषस्तृणापकर्षणपराङ्मुखो वर्तते, इदं च तृणं चे PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #7
--------------------------------------------------------------------------
________________ सुभद्रा SEGELEEVES OVERVEZEV: निजजिह्वया तस्य मुनेनेंत्रात् तृणं कर्षितं, तदैवं कुर्वत्याश्च तस्या भालस्थमाकुंकुमतिलकं तस्य मुनेललाटे लग्नं. स मुनिस्तु भिक्षां गृहीत्वा ततो निःसृतः. तदा कुंकुमतिलकांकितं मुनिभालं निरीक्ष्य छिद्रान्वेषणपरा तस्यः सुभद्रायाः श्वभूः साक्षाद्वयंतरीव निजभुजावुल्लालयंती महता वरेण पूत्कार कुर्वती | पारिवेश्मिकजनान् मेलयामास, निजपुत्र बुझ्दासमपि तत्र समाहूय तं तिलकांकितं मुनि दर्शयामास. एवं सा तां सुभद्रां विगोपयंतो निजतनयं प्राह, वत्स ! इदं तव वध्वा दुराचारं विलोकय ? नूनमियं E मधैव निजात्मानं जैनधर्मपरं प्रकटयंती त्वां विप्रतार्यानेन साधुना सह बिषयसेवन करोति, इतस्तत्र क सर्वमपि कुटुंबं मिलितं, वधूचेष्टितं च विलोक्य कुटुंबजनाः प्रोचुः, नुननियं वधूः सुभद्रा स्वैरिणी कुलटैव विद्यते, अनयात्मनः कुलं कलंकितं. एवं कुटुंबादिजनप्रोक्तानि वाक्यानि निशम्य विलक्षीभूतो बुक द्धदातोऽपि तस्यां विरक्तो जातः. एवं कुटुंबादिपारिवेश्मिकजनैर्निजभा च विडंब्गमाना, तिरस्कृता / सुभद्रा दध्यौ, अहो ! सांप्रतं मम पूर्वकृतं किमपि दुष्कृतं प्रकटीभूत ! यदिदं धर्मकार्य कुर्वत्या ममोपरि Jun Gun Aaradhak Trust PP.AC.Gunratnasuri M.S.
Page #8
--------------------------------------------------------------------------
________________ // 7 // (A ID मुधैवायं कलंकः चटितः, अथ किं करोमि ? कुत्र वा यामि ? मम धर्मस्यैव शरणमस्तु, इत्युक्त्वा सा! सुभद्रा दध्यौ, यावच्छासनदेवी मदीयमेतं कलंकं नोत्तारयिष्यति, तावन्मया कायोत्सगों न मोच्यः, इति ध्याचरित्रं वा सा सुभद्रा निश्चलमानप्ता निःकंपितशरीरा निजगृहमध्ये कायोत्सर्गध्याने तस्थौ. ततस्तस्याः सत्त्व साहसेन संतुष्टा शासनदेवो प्रकटीभूय प्राह, हे वत्से ! त्वं निदोषासि, अथ त्वं कायोत्सर्ग पारय ? एवं / शासनदेव्यादिष्टा सा सुभद्रा कायोत्सर्ग पारयित्वा तां देवींप्रति प्राह,भो मातः ! यूयं मदोयमिमं क-क) लंक दूरीकुरुत ? यथा जैनधर्मविगोपनं न स्यात्. तत् श्रुत्वा सा शासनदेवी जगो, भो वत्से ! त्वं खेदं मा कुरु ? नूनं यथा प्रातस्तवायं कलंक उत्तरिष्यति, तथैवाहं करिष्यामि.. अथ यथाहं गगनांगणस्था , ककथयामि, तथा त्वया कर्तव्यं, तत श्रुत्वा सा सुभद्रा हृष्टा, शासनदेव्यप्यदृश्यतां प्राप्ता. अथ प्रातरु स्थाय यावन्नगरप्रतोलीपालकाः प्रतोलीरुद्घाटयंति, तावन्मनागपि चतसृणां प्रतोलोनां कपाटा नोद्घटंतिस्म. तत् श्रुत्वा निजहृदि चमत्कृतो नृपः वयं तत्रागत्य प्रतोलोद्वारमुद्घाटयितुमुद्यमं करोतिस्म. 2 कृतबहुप्रयत्नोऽपि स नृपः कथमपि तदुद्घाटनसमर्थो न बभूव. ततः कोलाहलपराः सर्वेऽपि लोका व्या ACARALELISABELALACINIA 06:00506166 Jun Gun Aaradhak Trust P.P. Ac. Gunratnasuri M.S.
Page #9
--------------------------------------------------------------------------
________________ सुभद्रा चरित्रं // 8 // कुला बभूवुः. राजादिभिलोंकर्मिलित्वा नानाविधानि विधिना शांतिकार्याणि कारितानि, तथापि प्रतोली-2 कपाटाः कथंचिदपि नोद्घटिताः ततो राजापि विलक्षोऽभूत्. इतो दिव्यप्रकाशपूर्वकं गगनमंडले समागता शासनदेवी नृपादिसर्वलोकेभ्यः कथयामास, भो लोकाः ! नगरमध्ये या स्त्री सती भविष्यति, सा चेदामसूत्रतंतुनिबद्धया चालिन्या कूपमध्याजलमाकर्ष, तजलेन प्रतोलीकपाटानाच्छोटयिष्यति, तदैव 2 ते उद्घटिष्यंति, अन्यथा केनापि प्रकारेण नोद्घटिष्यंति. तत् श्रुत्वा नृपेण नगरमध्ये पटहोद्घोषणा कारिता, या सती स्त्री देव्युक्तविधिना पुरप्रतोलीद्वारोद्घाटनं करिष्यति, तस्यै राजा भूरिसन्मानं दा-2 स्यति. एवंविधां पटहोद्घोषणां निशम्यानेकपौरमहिला गर्वेण निजसतीत्वं मन्यमाना आमसूत्रतंतुनि-2 बद्धाश्चालिनी होत्वा कूपोपकंठं प्राप्ताः. क्रमेणेकैका सुंदरो तथाविधविधिना तत् कार्य कतुं प्रवृत्ता, परं तासां सर्वासां चालिनोबद्धाः सूत्रतंतव एव कूपोपकंठे त्रुटितुं लग्नाः, तदा कूपमध्याजलाकर्षगं तु दूरमेव स्थितं. एवं जनैर्विहस्यमानानां तासां स्त्रीणां कापि तत्कार्यकरणप्तमर्था नाभूत्. प्रांते तत्का किरण सोद्यमा नृपराइयोऽपि निष्फलीभूनप्रयत्ना जाताः. तद् दृष्ट्वा नृपयुताः सर्वेऽपि लोकाः सचिंता अभवन्. EVGAGAGERE PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #10
--------------------------------------------------------------------------
________________ मभदा / इतः सा सुभद्रा निजश्वधूप्रत्यवक्, हे मातः ! यदि भवतीभ्यो रोचते, तदाहं पुरप्रतोलोकपाटोघाटनं मल 2 करोमि. तत् श्रुत्वा राक्षसीव कोपाकुल हृदया सा जगाद, अरे ! दुष्टे ! भवत्याः सतोत्वं ह्यस्तनदिने एव चरित्र 2. मया च सर्वलोकैरपि ज्ञातमस्ति, तत्कलंकेन नूनमसंतुष्टेव सांप्रतं किं राजादीनामपि निजदुराचरणं द // 9 // // 9 // शयितुं समीहसे ? निजोत्तरीयेण मुखमाच्छाद्य मुकीभूय गृहकोणे एव तिष्ट ? अथ विशेषतः कुटुंबं मा | कलंकय? एवं तया निर्भवितापि सुभद्रा श्वश्रूप्रति सविनयं प्राह, हे मातः! भवतीभिः पूज्याभिर्यकि। चिजलप्यते, तत्प्रमागं, मया चेत् प्रत्युत्तरो दीयते, तदा मम शोभा न भवेत्. ततो यदि भवतीभिरा2 देशो दीयते, तदाहं भवत्याः प्रसादान्नूनं पुरप्रतोलीकपाटानुद्घाटयिष्यामि. एवंविधां नम्रां विनकि यान्वितां च निजवधूवाचं निशम्याश्चर्य प्राप्ता, किंचित् शांता च सा हृदये हसंतो तिरस्कारपूर्वकं का कि प्राह, अरे ! यद्येवं दुराचारपरापि निजात्मनि सतोत्वं मन्यमानासि, तर्हि द्रुतं पुरप्रतोलोकपाटानुद्घा|टय ? यथा ते शुद्धं सतीत्वं पश्यामः. एवं सहास्यव्यंग्योक्त्यापि तस्या अनुमतिं समवाप्य सुभद्रया सं पटहः स्पृष्टः ततः स्नातपरिहितनिर्मलवस्त्रा सुभद्रा कौतुकार्थिश्वश्रूप्रभृतिपोरनारीगणपरिवृता, सवि ATALAANAA VEREINE Jun Gun Aaradhak TN P.P. Ac. Gunratnasuri M.S.
Page #11
--------------------------------------------------------------------------
________________ मुभद्रा AYEGeeee 1 . AT स्मयं नृपादिपोरव्रजैश्च निरीक्ष्यमाणा कूपोपकंठं प्राप्ता. ततस्तया पंचपरमेष्टिनमस्कार स्मृत्वा, शासनदेवीं 12 च हृदये ध्यात्वा, आमसूत्रतंतुभिश्चालिनी बध्ध्वा कूपे च निःक्षिप्य ततो जलमाकर्षितं. तदा न च सू. तंतवस्त्रुटिताः, न च चालिन्या बिंदुमात्रमपि जलं गलितं. राजादयः सर्वलोकाश्चाश्चर्यशंकुना कीलि-2 जा इव स्तंभीभूता विस्फारितनयना विलोकमाना एव तत्र स्थिताः. तस्याः श्वश्रूरपि विलक्षीभूय श्यामा-2 नना तत्सर्व विलोकयामास. ततो जलभृतां तां चालिनी निजहस्ते धृत्वा नरनारीगणैः परिवृता, सुवासिनीभिर्गीयमानगुणा सा सुभद्रा पुरप्रतोलीप्रति चचाल.' ततागत्य स्मृतपंचनमस्कारासौ तच्चालिनीतोंजलिना जलमादाय यावत् प्रतोलीकपादानाच्छोटयति, तावत्तूर्णमेव हावपि कपाटो स्वयमेव ताटुकृत्योद्घकटितो, प्रहृष्टैः पौरगणैश्च जयजयारावपूर्वकं तंडुलपुष्पादिभिः सा वर्धापिता. अथैवं तया महासत्या सुभद्रया प्रतोलीत्रयकपाटास्तथैव विधिनोद्घाटिताः, ततो गगनांगणस्थितया शासनदेव्या प्रकटीभूय नृ- पादिपोरसमक्षं सुभद्रायै प्रोक्तं, भो वत्से ! अथैवंविधा या काचित् सतीत्वगर्वमंडिता ललना भविष्यति, सा चतुर्थीप्रतोलीकपाटावुद्घाटयतु, परमद्यापि कयापि तो कपाटावनुद्घाटितावेव तत्पुरे दृश्येते. ततः। PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #12
--------------------------------------------------------------------------
________________ सुभद्रा चरित्र B स्तया शासनदेव्या लोकेभ्यः प्रोक्तं, यः कोऽप्यस्या सुभद्रायाः सत्या विरु चिंतयिष्यति करिष्यति वा, तस्य मया शिक्षा दास्यते. ततोऽवनीपतिप्रमुखः सर्वोऽपि जनो निजचेतसि चमत्कृतस्तस्याः संतोत्वं स्तु वन् जैनधर्म स्वीचकार. श्वश्रूरप्युत्थाय तां निजवधूं क्षमयामास. सुभद्रा तु गर्वलेशमप्यदधाना श्वश्रू // 11 // नमतिस्म. बुद्धदासादिसकलोऽपि कुटुंबजनो बौद्धधर्म परिहृत्य जैनधर्मपरायणो बभूव. कियत्कालमेवं / प्रसुखेन गार्हस्थ्यधर्म परिपाल्य सा सुभद्रा सती गुरुपावें दीक्षां गृहीत्वा, क्रमेण तीव्रतपोऽग्निना निजक2 मेंधनानि प्रज्वाल्य मुक्तिपुरीं ययौ. // इति श्रोसुभद्राचरित्रं समाप्तं // श्रीरस्तु // आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमाथी उद्धरीने तेनी मूलभाषामा सुधारो . वधारो करी जामनगरवाळा पंडित श्रावक हीरालाल हंसराजे पोताना श्रीजैनभास्करोदय .. प्रेसमां स्वपरना श्रेयने माटे छापी प्रसिद्ध करेल छे // श्रोरस्तु // . . ॥समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात् // ... रासरी PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #13
--------------------------------------------------------------------------
________________ सुभद्रा . तद्दन सरल तेमज संस्कृत ज्ञान अतिमुक्तचरित्र ग ........ // सुदर्शनश्रेष्ठचरित्र" " .....रु. साधारण जाणनारने पण .. श्रीयकमुनिचरित्र" . ...रु.॥ नर्मदासुंदरीचरित्र" " चरित्रं मेतार्यमुनिचरित्र".. ....रु. // विष्णुकुमारमनिचरित्र " .... उपयोगी थइपडे तेवा . // 12 // ____ आर्द्रकुमारचरित्र" .... ....रु, 1) चेलणामहासविचरित्र " गद्यबद्ध.. .. चदनवालाचरित्र" .... ...... || पत्रकारे तद्दन नवीन ग्रंथो तैयार छे. गजसुकुमालचरित्र" ......रु. 0 . .. .. शुभशीलगणीकृत. नागदत्तचरित्र " ....रु. 0 // IP मदनरेखाचरित्र गप ... ....रु. 0 // अनिकापुत्रचरित्र" ..,. . .... संदकाचार्यचरित्र पर ....रु. 0 // नंदिषेणमुनिचरित्र" ... ....रु. 0 // राजीमतिचरित्र गा .........रु, 0 // सुभद्राचरित्र " .. लखो-पंडित हीरालाल हंसराज. जामनगर. ॐॐॐॐॐॐॐॐॐ PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trus!
Page #14
--------------------------------------------------------------------------
________________ 08983220000000000299 Gleesia જાલશ્રી નીતિવિજયજી જ્ઞાન ભંડાર, 4614545454545454545454545454545454545454545454545454545454545454545454545454545454545 15454545454545457 Il giat Suara 11 15151515665555 IST AUSSI 154555555555555555555555555555 20999800 Ban chua dao - else. Bleeeeeeeeweeeeeepweo Jun Gun Aaradhak Trust P.P. Ac. Gunratnasuri MS