________________ मूल // 5 // प्रति जगो, वत्से ! अस्माकं कुले तु बुद्ध एव देव आराधनोयो विद्यते, अतस्त्वयाथो जिनमंदिरादिष्वसुभद्रा न्यत्र कुत्रापि न गंतव्यं. तत् श्रुत्वा वजाहतेव दुःखितहृदया सा सुभद्रा दथ्यौ, अहो ! कपटं विधायाचरित्रं 2 हमनेन भर्चा परिणीता, नूनमेष बोद्धधर्मानुयायो वर्तते, अथ किं कर्तव्यं ? परं यद्भावि तद्भवतु, मया | // 5 // तु निजहितमेवाचरणीयं, यतः-सर्वथा स्वहितमाचरणी / किं करिष्यति जनो बहुजल्पः // विद्यते स / न हि कश्चिदुपायः / सर्वलोकपरितोषकरो यः // 1 // अथ श्वश्रूवचनमवगणय्य सा सुभद्रा तु जिनमदिरेषु जिनबिंबान्येव नंतुं प्रयाति. जैनमुनिभ्यश्च वंदनं विदधाति. एवं तां निजाज्ञामवगणयंती निरीकक्ष्याभिभूता श्वश्रूर्यथा तथा वदति, निरपराधां च तां विगोपयति: तद् दृष्ट्वा बुद्धदासेन सा निज़प्रिया का सुभद्रा पृथग्गृहे स्थापिता, तत्र च सुखं स्थिता सा जिनेंद्र पूजयंती, जैनमुनींश्च प्रतिलाभयंती धर्मकाकि येष्वेव तत्परा बभूव. इतोऽन्यदा कश्चिजिनकल्पो जैनसाधुर्मासक्षपणपारणे एकाक्येव तस्याः सुभद्राया गृहे भिक्षार्थ समायातः. तं मुनींद्र प्रतिलाभयंती सुभद्रा चक्षुःपतिततृणेन पीडथमानं विलोक्य विचारयामास, अहो अयं जिनकल्पविहारी मुनींद्रो निजचक्षुषस्तृणापकर्षणपराङ्मुखो वर्तते, इदं च तृणं चे PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust