________________ सुभद्रा चरित्रं मन्मथ // पुत्र्यर्थं विरला एव / लभंते वरमंगिनः // 2 // युग्मं // इत्यादि विचिंत्य स्वहृदये प्रमुदितः स श्रेष्ठी तं बुद्धदासंप्रति प्राह, भो बुद्धदास! त्वं धर्मज्ञो गुणज्ञश्वासि, इयं मे कन्या सुभद्रा सांप्रतं यौवनाभिमुखा जातास्ति, ततो यदि त्वमेनामंगीकुर्यास्तदा लक्ष्मीकृष्णयोरिव, शशिरोहिण्योरिव युवयोरभिन्नप्रेमरसपूर्णः संबंधो भवेत्. एवंविधां श्रेष्ठिनः प्रार्थनां निशम्य निजहृदि हृष्टेन तेन बुद्धादासेनापि तदीयवचः स्वीकृतं. ततो नैमित्तिकैरादिष्टे निकटे शुभदिवसे श्रेष्ठिना महोत्सवपूर्वकं तेन बुद्धदासेन [] 2 सह निजपुत्र्याः सुशीलायाः सुभद्राया विवाहो विहितः. एवं तां सुभद्रां परिणीय स तयासह विविधभो- 1 गविलासाननुभवन् स्थितः. कियदिनानंतरमुपार्जितभूरिद्रव्यः स बुद्धदासः सकलं श्वशुरादिवर्गमुत्कलाप्य स्वपुरंप्रति यियासुर्निजपल्या सुभद्रया सह ततः प्रस्थानमकरोत्. क्रमेण कुशलेन मार्गमुल्लंघयन् स स्वनगरे समेत्य मातापित्रोर्मिलितः. परमानंदं प्राप्ताभ्यां मातापितृभ्यामपि गृहे महोत्सवः कृतः. सुभद्रापि का निजश्वभूपादयोः पतित्वा निजविनयं प्रकटीचकार, अथ द्वितीयदिने प्रातरुत्थाय सुभद्रा स्नानशुचीभूता जिनेंद्रभवने गत्वा जिनबिंबानि प्रणम्य, जैनमुनिभ्यश्चापि वंदनं विधाय गृहे समागता. तदा श्वश्रूस्ता PP.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust