________________ सुभद्रा चरित्रं // 3 // ॥३॥का || देवपूजां करोति, ततो धर्मशालायां गत्वा जैनमुनिपार्श्वे धर्मशास्त्रश्रवणं करोति. एवं नित्यं धर्म क्रियां कुर्वतं तं तादृशं सुश्रावकं विलोक्य ज जिनमतिः श्रेटी निजगृहे देवपूजाद्यर्थमाकारयामास. एवं श्रेष्ठिसमाहूतः स बुद्रदाप्तस्तत्र श्रेटिगृहेऽभ्येत्य यतनापूर्वकं निजशरोरं प्रक्षाल्य चंदनशतपत्रादिभिर्जिनबिंबानि पूजयामास, ततो मधुरस्वरैर्निजहृदयात् कृत्रिमं शुद्धभावं दर्शयन् स जिनेशानां स्तवनं चकार. ततश्चात्याग्रहपूर्वकं श्रेष्ठिना भोजनाय निवेशितः स बुझदासः भोजनं परिवेषयतः श्रेष्ठिनो जगो, भो श्रेष्ठिन् ! अद्य मम विकृतियुतं भोजनं न कल्पते, मयाद्याचाम्लमेव कर्तव्यमस्ति, इति श्रुत्वा श्रेष्ठिना निर्विकृतिकं रुक्षान्नं तस्मै परिवेषितं. तन्मिताहारं विधाय प्रासुकं जलं चक पीत्वा तेन तत्रैव स्थितेन चतुर्विधाहारप्रत्याख्यानं पुनः सूर्योदयावधि विहितं. एवं तं.जैनधर्मकुशलं, की क क्रियापात्रं, पदे पदे च जीवयतनापरं विलोक्य तस्य तया मायया वंचितः श्रेष्ठी चिंतयामास, अहो ! KE अयं धर्मात्मा युवा पुरुषो मम पुत्र्याः सुभद्रायाः परिणयनाथ सर्वथा योग्योऽस्ति. यतः-जिनेंद्रधर्मवेत्तारं / / दातारं विनयान्वितं // कर्तारं यतनां सर्व-जीवेषु करुणान्वितं // 1 // सरलं स्ववपूरूप-लक्ष्मीनिर्जित / Jun Gun Aaradhak Trust PP Ac Gunratnasun MS