________________ .. मुभद्रा चरित्रं // 2 // // 2 // IA र्यदक्षा बभूव. अथ स जिनमतिः श्रेष्ठो तां निजसुतां सुभद्रां केनचिजैनधर्मविदा पुरुषेण सह परिणा ययितुं समीहते. अथान्यदा चंपापुरवास्तव्यो बौधधर्मवासितांतःकरणो बुद्धदासाख्यो युवा व्यापारी व्यापारार्थ तत्र वसंतपुरनगरे समाययो. तत्र स विविधक्रयाणकव्यापारं कुर्वन् भूरिधनं समर्जयतिस्म. अथै| कदा स बुद्धदासो मार्गे ब्रजंती, सखीसमूहोपेतां, रूपनिर्जितसुरांगनां च तां सुभद्रां विलोक्य मदनातुरः / | कंचिन्नरं पप्रच्छ, भो पुरुषोत्तम! कस्येयं पुत्री! च सा विवाहितास्ति.? वा कुमारिकास्ति.? तेनोक्तं भो बुद्धदास! इयं जिनमत्यभिधस्य श्रेष्ठिनः सुभद्राख्या तनया वर्तते, किंच सायापि कुमारिकैवास्ति. तस्या जनकश्चक कता जैनधर्मविदा शुद्धश्रावकेण सहैव परिणाययितुं समीहते, नान्यस्य परधर्मिणः कस्यापि पुरुस्य स निज पुत्री दास्यति. तत् श्रुत्वा स बुद्धदासो दथ्यो, अथाहं कथंचिदपि जैनीभूयतां परिणयामि, यतो मे मानसं कि तस्यामेव विलग्नमस्ति.जैनीभूतं च मां विलोक्य सजिनमतिश्रेष्ठयपि सुखेनेमां निजपुत्री सुभद्रां दास्यति. इति विचिंत्य स बुद्धदासो जिनधर्मसंबंधिशास्त्राणि पठित्वा सासायिकप्रतिक्रमणादिजैनधर्मक्रियासु कुशलो बभूव. एवं शुद्धां श्राद्ध सामाचारी शिक्षयित्वा सुश्राधीभूय स जिनमंदिरेषु गत्वा विधिना SVEEVEGVEGVEVE Eve eve PP.AC.Gunratnasuri M.S Jun Gun Aaradhak Trist