Book Title: Yogvinshika Prakaranam
Author(s): Haribhadrasuri, Yashovijay Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________ 150 योगविंशिका गाथा-१९ स्यादेतद्, यदि क्षपकश्रेणिद्वितीयापूर्वकरणभावी सामर्थ्ययोग एवानालम्बनयोगो ग्रन्थकृताऽभिहितस्तदा तदप्राप्तिमतामप्रमत्तगुणस्थानानामुपरतसकलविकल्पकल्लोलमालानां चिन्मात्रप्रतिबन्धोपलब्धध्यानं न घटते / अथ तदभावेऽपि मतं ध्यानम्, ततः सुप्तस्य तत् किं नेष्यते, मनोऽसत्त्वस्य तुल्यत्वात् ? इति . / / 3074 / / पर एवाचार्यमतमाशङ्क्याह - अहव मई सुत्तस्स हि न कायरोहप्पयत्तसम्भावो / एवं चित्ताभावे कत्तो य तओ जिणस्सावि ? / / 3075 / / होज वि किंचिम्मेत्तं चित्तं सुत्तस्स सव्वहा न जिणे / जइ सुत्तस्स न झाणं जिणस्स तं दूरयरएणं / / 3076 / / वृ० - अथवा आचार्यस्य मतिः सुप्तस्य स्फुटमेव ज्ञायते न कायनिरोधप्रयत्नसद्भावः, किन्तु तदभाव एव, तत् कुतस्तस्य ध्यानम् ?, जिने त्वस्त्यसाविति तस्य ध्यानं भवत्येव / अत्रोच्यते-नन्वेवं तमनस्कत्वाः चित्ताभावे जिनस्यापि केवलिनः कुतस्तकोऽसौ कायनिरोधप्रयत्नसद्भावः ? भवेद् वाऽद्यापि किञ्चिन्मात्रं चित्तं सुप्तस्यापि, जिने तु केवलिन्यमनस्कत्वात् तत् सर्वथा नास्ति; ततश्च सुप्तस्य यदि न ध्यानमिष्यते, तर्हि जिनस्य तद् दूरतरकेण दूरतरेण नेष्टव्यम्, सर्वथा चित्ताभावेन कायनिरोधप्रयत्नाभावादिति / / 3075-3076 / / सूरिः प्रतिविधानमाह - जुत्तं जं छउमत्थस्स करणमेत्ताणुसारिनाणस्स / तदभावम्मि पयत्तोभावो न जिणस्स सो जुत्तो / / 3077 / / छउमत्थस्स मणोमेत्तविहियजत्तस्स जइ मयं झाणं / कह तंजिणस्स न मयं केवलविहियप्पयत्तस्स? / / 3078 / / वृ० - युक्तं यच्छद्मस्थस्य करणमत्र मनः, तन्मात्रानुसारिज्ञानस्य, 'तदभावे' सुप्तावस्थायां मनःकरणाभावे, कायनिरोधप्रयत्नाभावः / जिनस्य पुनरसौ न युक्तः, मनोज्ञानाभावेऽपि केवलज्ञानसद्भावादिति / किञ्च, यदि मनोमात्रविहितयत्नस्य छद्मस्थस्य साध्वादेर्मतं ध्यानम्, तर्हि कथं जिनस्य केवलिनः सकललोकावलोकविलोकनस्वभावकेवलज्ञानविहितप्रयत्नस्य तद् ध्यानं नाभिमतम् ? इति / / 3077-3078 / / अपि च - पुचप्पओगओ वि य कम्मविणिजरणहेउओ वा वि / सद्दत्थबहुत्ताओ तह जिणचंदागमाओ य / / 3079 / / चिंताभावे वि सया सुहुमोवरयकिरियाई भन्नति / जीवोवओगसब्भावओ भवत्थस्स झाणाइं / / 3080 / / वृ० - भवस्थस्य केवलिनश्चिन्ताया अभावेऽपि सदा सूक्ष्मक्रियानिवृत्त्युपरतक्रियाप्रतिपातिलक्षणे द्वे ध्याने भण्यते इति सम्बन्धः, इयं च प्रतिज्ञा / हेतुमाह - जीवोपयोगस्वाभाव्यात्-तज्जीवोपयोगस्य तस्यामवस्थायामेवंविधस्वभावत्वादित्यर्थः तथा, पूर्वप्रयोगात्-पूर्वविहितध्यानसंस्कारादित्यर्थः / तथा, कर्मनिर्भरणहेतुत्वात् ते ध्याने अभिधीयेते, छद्मस्थस्य धर्मध्यानवदिति / तथा, शब्दस्यार्थानां बहुत्वात् ध्यैधातोरनेकार्थत्वादित्यर्थः, तथा जिनागमे भणितत्वादिति / / 3079-3080 / / अथ प्रेर्यं परिहारं चाह - जइ अमणस्स वि झाणं केवलिणो कीस तं न सिद्धस्स ? / भण्णइ जं न पयत्तो तस्स जओ न य निरुद्धव्वं // 3081 / / वृ० - यद्यमनस्कस्यापि केवलिनो ध्यानमिष्यते, तर्हि सिद्धस्य तत् किमिति नाभ्युपगम्यते ? भण्यतेऽत्रो

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214