Book Title: Yogvinshika Prakaranam
Author(s): Haribhadrasuri, Yashovijay Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________ 156 योगविंशिका गाथा-२० नानुपपत्तिः, केवलज्ञानेऽशेषवृत्त्यादिनिरोघाल्लब्धात्मस्वभावस्य मानसविज्ञानवैकल्यादसम्प्रज्ञातत्व वृ० - अथ चानन्तरं स क्षपकः क्षीणमोहात्मा भूत्वा क्षीणमोहगुणस्थानाद्धापरिणतिमयो भूत्वा द्वितीयं शुक्लध्यानं पूर्ववत् प्रथमशुक्लध्यानरीत्या श्रयेद् भजेत्, कथम्भूतः क्षपकः ? वीतरागो विशेषेण इतो रागो यस्मात्स तथा, पुनरपि कथम्भूतः ? भावसंयुक्तो विशुद्धतरभावोपेतः, एवंविधः क्षपको द्वितीयं शुक्लध्यानं श्रयेदित्यर्थः / / 74 / / अथ तदेव शुक्लध्यानं सनामविशेषणमाह - अपृथक्त्वमविचारं, सवितर्कगुणान्वितम् / स ध्यायत्येकयोगेन, शुक्लध्यानं द्वितीयकम् / / 75 / / वृ० - स क्षपकः क्षीणमोहगुणस्थानवर्ती द्वितीयं शुक्लध्यानं एकयोगेन एकतरयोगेन संध्यायति, यदाह - एकं त्रियोगभाजामाद्यं स्यादपरमेकयोगवताम् / तनुयोगिनां तृतीयं, निर्योगानां चतुर्थं तु / / 1 / / कथम्भूतं ? अपृथक्त्वं पृथक्त्ववर्जितं, अविचारं विचाररहितं, सवितर्कगुणान्वितं वितर्कमात्रगुणोपेतं, द्वितीयं शुक्लध्यानं ध्यायतीत्यर्थः / / 75 / / अथापृथक्त्वमेव व्यक्तमाह - निजात्मद्रव्यमेकं वा, पर्यायमथवा गुणम् / निश्चलं चिन्त्यते यत्र, तदेकत्वं विदुर्बुधाः / / 76 / / वृ० - बुधा ज्ञाततत्त्वाः तदेकत्वम् अपृथक्त्वं विदुः अवधारयन्ति स्म कथयन्ति स्म, तत्किं ? - ध्यायकेन यनिजात्मद्रव्यं एक केवलं स्वकीयविशुद्धपरमात्मद्रव्यं, वा अथवा तस्यैव परमात्मद्रव्यस्य एकं केवलं पर्यायं, वा अथवा एकमद्वितीयं गुणं वा, तदत्र गुणपर्यायविशेषः पूर्वोक्त एव, एतदेवंविधमेकं द्रव्यमेकं गुणं वा एक पर्यायं वा, निश्चलं चलनवर्जितं यत्र ध्यायते तदेकत्वमिति / / 76 / / अथाविचारत्वमाह - यद्यञ्जनार्थयोगेषु, परावर्तविवर्जितम् / चिन्तनं तदविचारं, स्मृतं सद्ध्यानकोविदैः / / 7 / / वृ० - सम्प्रति सद्ध्यानकोविदत्वं शास्त्राम्नायविशेषादेवास्ति, न त्वनुभवात्, यदाहुः श्रीहेमचन्द्रसूरिपादाः - अनविच्छित्त्याऽऽम्नायः, समागतोऽस्येति कीर्त्यतेऽस्माभिः / दुष्करमप्याधुनिकैः, शुक्लध्यानं यथाशास्त्रम् / / 1 / / तैः सद्ध्यानकोविदैः शास्त्राम्नायावगतशुक्लध्यानरहस्यैस्तद् अविचारं अविचारविशेषणोपेतं द्वितीयं शुक्लं स्मृतं प्रज्ञप्तं, तत्किं ? - यत्पूर्वोक्तस्वरूपेषु व्यञ्जनार्थयोगेषु शब्दाभिधेययोगरूपेषु परावर्तविवर्जितं शब्दाच्छब्दान्तरमित्यादिसंक्रमेण रहितं चिन्तनं श्रुतानुसारादेव क्रियते तदविचारमिति / / 77 / / अथ सवितर्कत्वमाह - निजशुद्धात्मनिष्ठं हि, भावश्रुतावलम्बनात् / चिन्तनं क्रियते यत्र, सवितर्कं तदुच्यते / / 78 / / वृ० - यत्र निजशुद्धात्मनिष्ठं स्वकीयातिविशुद्धपरमात्मलीनं हि स्फुटं चिन्तनं सूक्ष्मविचारणात्मकं क्रियते, तत्सवितर्कैकगुणोपेतं द्वितीयं शुक्लध्यानं, कस्मात् ? भावश्रुतावलम्बनात् सूक्ष्मान्तर्जल्परूपभावागमश्रुतावलम्बनमात्रचिन्तनादिति / / 78 / / अथ द्वितीयशुक्लजनितसमरसीभावमाह - इत्येकत्वमविचारं, सवितर्कमुदाहृतम् / तस्मिन् समरसीभावं, धत्ते स्वात्मानुभूतितः / / 79 / / वृ० - इति पूर्वोक्तप्रकारेण एकत्वाविचारसवितर्करूपविशेषणत्रयोपेतं द्वितीयं शुक्लध्यानं उदाहतं कथितं,

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214