Book Title: Yogvinshika Prakaranam
Author(s): Haribhadrasuri, Yashovijay Gani, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 195
________________ 178 परिशिष्ट-३A आवन्नमकरणिजं एवं चेइहरलोचकरणाई / इय वक्कत्थो अ महावक्कत्थो पुण इमो एत्थ / / 160 / / एवं सति चैत्यगृहलोचकरणादिकमकरणीयं साधुश्राद्धानामकर्त्तव्यं आपन्नं, तत्रापि परपीडानुगमात्, इत्येष वाक्यार्थश्चालनागम्यः / महावाक्यार्थः पुनरत्रायम् - ||160 / / अविहिकरणंमि दोसो तो विहिणा चेव होइ जइअव्वं / अइदंपज्जत्थो पुण आणा धम्म मि सारोत्ति / / 161 / / अविधिकरणे-ऽनीतिविधाने चैत्यगृहलोचादेः दोषो-हिंसापत्तिर्विधिकरणनान्तरीयकासत्प्रवृत्तिनिवृत्तिपरिणामजनितस्याहिंसानुबन्धस्य प्रच्यवात्, तत्तस्माद्विधिनैव यतितव्यं भवति चैत्यगृहलोचाद्यर्थे / तदिदमुक्तम् - (उपदेशपदे-८६७) “अविहिकरणंमि आणाविराहणा दुह्रमेव एएसिं / तो विहिणा जइअव्वं / / " ति (महावकत्थइवं तु) चैत्यगृहकरणविधिश्च - (षोडशके-६/३) . “जिनभवनकारणविधिः शुद्धा भूमिर्दलं च काष्टादि / भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन” / / इत्यादिग्रन्थोक्तः / लोचकर्मविधिस्तु - “धुवलोओ अ जिणाणं वासावासेसु होइ थेराणं / तरुणाणं चउमासे बुड्डाणं होइ छम्मासे” || इत्याधुक्तः / ऐदम्पर्यार्थः पुनराज्ञा धर्मे सार इति तामन्तरेण धर्मबुद्ध्यापि कृतस्य निरवद्यत्वाभिमतस्यापि कार्यस्य निष्फलत्वादिति / / 161 / / वाक्यान्तरमधिकृत्याह - 'गंथं चएज' एत्थ वि सचेअणाचेअणं चए वत्थु / . एस पयत्यो पयडो वक्कत्थो पुण इमो होइ / / 162 / / 'ग्रन्थं त्यजेदि'त्यत्रापि सचेतनमचेतनं च वस्तु त्यजेन्न गृह्णीयादिति एष प्रकटः पदार्थः, वाक्यार्थः पुनरयं च वक्ष्यमाणलक्षणो भवति / / 162 / / वत्थाईण अगहणं एवं पत्तं मणीण अविसेसा / आणाचाए दोसो नण्णह वत्थाइगहणो वि / / 163 / / एवं सति ग्रन्थमात्रग्रहणनिषेधे, मुनीनामविशेषाद्वस्त्रादीनामग्रहणं प्राप्तं, न हि स्वर्णादिकं ग्रन्थो वस्त्रादिकं च न ग्रन्थ इति विशेषोऽस्ति, आज्ञात्यागे "जिणाण बारसरूवो उ” इत्यादिवचनोल्लङ्घने वस्त्रादिग्रहणेऽपि दोषोऽतिरिक्तोपकरणस्याधिकरणरूपत्वात्, नान्यथा आज्ञाया अत्यागे वस्त्रादिग्रहणेऽपि दोषः / / 163 / /

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214