Book Title: Vishva Gunadarsh Champu Author(s): Gangadev Bhatt, Mahadev Sharma Publisher: Tukaram Jawaji Mumbai View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ विश्वगुणादर्शचम्पू:ताताचार्यमतमनेन खण्डितम् । ततःप्रभृति ताताचार्यः अप्पयदीक्षितेन दृढतरबद्धवैर आसीत् । नैतावदेव केनापि प्रकारेणायं हन्तव्य इत्यपि निश्चिकाय । ततश्चैकस्मिन् समये ताताचार्येण तत्रभवन्तं दीक्षितं विपिनमार्गेण गच्छन्तं ज्ञाला तद्वधाय चण्डालाः प्रेषिताः, परंतु तेन तपखिना शिवभक्तिप्रभावः केवलं द्वेषपरवशतया नावगतः। तत एव तस्मिन्नरण्ये कश्चिद्वीरपुरुषः सहसाऽविर्भूय तेन चण्डालाः परिभूताः इत्यादि । अस्तु नामैतत् । अत्रत्योऽयं अप्पयगुरुस्तु ताताचार्यस्य भागिनेयः इति निश्चीयते । ताताचार्यस्तु कर्नाटदेशीयस्य कृष्णरायाख्यस्य राज्ञो गुरुः, परोपकाररतश्चासीत् । अनेन 'सात्विकब्रह्मविद्याविलासः' इति प्रसिद्धो वेदान्तशास्त्रग्रन्थो व्यरचि इत्यपि श्रूयते । अत्र (मुम्बय्याम् ) कर्नाटकनाम्नि मुद्रणयन्त्रालये मुद्रितपुस्तके आङ्ग्लभाषामयप्रस्तावनायामस्य विश्वगुणादर्शकर्तुर्वृत्तं दृश्यते तदित्थम् 'अयं विश्वगुणादर्शकर्ता वेङ्कटाध्वरिनामा कविः नीलकण्ठदीक्षितसमकाल: तत्सहाध्यायी चासीत्' इति । ततश्चैवं प्रतिपद्यते-नीलकण्ठदीक्षितः, अप्पयदीक्षितस्य पौत्रः नारायणदीक्षितस्य च पुत्र आसीदिति काव्यमालाख्यमासिकपुस्तकस्य प्रथमगुच्छान्तर्गतश्रीमदप्पयदीक्षितप्रणीतवैराग्यशतकाख्यग्रन्थस्य प्रथमश्लोकटिप्पण्यां दृश्यते । अनेन नीलकण्ठचम्पू रचिता, तत्प्रारम्भे खकीयग्रन्थनिर्माणकालश्चापि निर्दिष्टः–'अष्टत्रिंशदुपस्कृतसप्तशताधिकचतुःसहस्रेषु । (४७३०) कलिवर्षेषु गतेषु अथितः किल नीलकण्ठविजयोऽयम् ॥' इति । तस्मादेवं निश्चीयते, ४७३८ तमे वर्षे ख्रिस्ताब्दं १६३७ तमं तस्मिन्नेव वर्षे नीलकण्ठचम्पूर्विरचिता, तत्समकालीनश्वायं वेङ्कटाध्वरिनामा कविरासीत्, ततश्च २६२ वत्सरेभ्यः प्राक् अयं विश्वगुणादर्शकर्ता कविः सुप्रसिद्ध आसीत् इति । परं च तेनायं ग्रन्थः कस्मिन् वर्षे निर्मित इति तु न याथार्थेन निश्चेतुं शक्यते, केवलं २६० वर्षेभ्यः प्राकनकालीनोऽयं ग्रन्थ इत्यनुमीयते । अन्यदप्यत्रत्यमुद्रितपुस्तकप्रस्तावनायां किंचिद्वृत्तमुपलभ्यते 'अयं वेङ्कटाध्वरी काञ्चीपुरसमीपे 'अर्शनफल' नाम्नि अग्रहारे प्रतिवसति स्म । 'वडघले' इत्याख्यवैष्णवसंप्रदायपक्षपातिताताचार्यान्वयोत्पन्नश्वासीत्' इति । अथ उपरि 'वडघले' इत्याख्यो वैष्णवसंप्रदाय उक्तः तत एव अन्यसंप्रदायसत्त्वस्याकाङ्क्षा उत्पद्यते, तत्परिपूरणार्थमन्यमतस्यापि निरूपणं यत्किचिदपि प्रसङ्गादापतितं, ततश्चैतत्पथप्रवर्तकस्य रामानुजखामिनोऽपि किंचिच्चरित्रलेखनं प्रसङ्गं नातिकामति । तच रामानुजीयं वृत्तं पुस्तकद्वये द्विधा श्रूयते । तत्र महाराष्ट्रभाषायां कविचरित्राभिधमेकं पुस्तकं सुप्रसिद्ध विद्यते तस्मिन्नेवमस्य वृत्तान्तः 'अयं रामानुजाचार्यः श्रीमच्छंकरमतप्रतिपक्षी शालिवाहनशकस्य ११ दशे शतके 'दोरासमुद्र' इत्याख्यनगरस्याधिपती 'बेटावर्धन' नाम्नि राज्ञि महीं शासति 'श्रीपेनुमुतूर' नाग्नि प्रामे श्रीकेशवाचार्यपत्न्यां कान्तिमत्यामाविबभौ । अयं च ग्रामः चन्नपट्टण (मद्रास ) पुरावादशकोशेषु काञ्चीनाना भाषायां 'कंजेवरम्' इति नाना वा यत्प्रसिद्ध नगरं विद्यते तदध्वन्येव वर्तते। एतस्मिन्नेव प्रामे उपनयनादनन्तरं For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 331