Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूमिका । . श्रीमता रामानुजेन यादवप्रकाशाख्यखमातुलात् वेद-शास्त्रादिप्रावीण्य संपादितम् । ततश्चायं खकीयग्रामे एवैकं चिश्चातरुमूलमाश्रियैकाग्रेण मनसा भगवन्तं श्रीराममु. पासांचके, ततस्तत्प्रसादादेव जीवेश्वरयोéदवादमाश्रित्य अद्वैतवादिनः श्रीशंकरखा. मिनो मतं प्रत्याचख्यौ, लोकांश्च श्रीसीतारामपूजनं त्रिपुण्ड्रधारणादिसंप्रदायान् ग्राहयामास । ततश्चानेकविधदेशेषु संचारमारचय्य तत्रत्यान् जनान् स्वमतमुपदिदेश । एवं पर्यटन् ‘दोरासमुद्र' नगरमेय तत्रत्यराजकन्यायाः पिशाचबाधां न्यवर्तयत् । ततः सुप्रसन्नेन राज्ञा तस्मै मूल्यवन्ति वस्त्रालंकारादीनि पारितोषिकाणि दत्तानि खयं च तस्माद्वैष्णवधर्ममङ्गीचकार । एवमयं यमदुनाचार्येण स्वस्य प्रियच्छात्रेण सह तिरुपति-जगन्नाथ-काशी-जयपुरादिमहाक्षेत्रेषु संचरन् तत्रस्थब्राह्मणान् वैष्णवदीक्षितान संपादयामास कतिचिन्मठांश्च स्थापयामास । किंचास्य वैष्णवधर्मप्रवचनं श्रुखा जयपुरमहाराजः अतीव ननन्द स्वपुरस्थान जैनांश्च तैलयन्त्रे विनिष्पीड्य जघान । एवमयं पर्यटन बदरीक्षेत्रं गत्वा तत्रस्थनारायणं देवं च स्तुत्वा खदेशमाजगाम । तत्र चानेन व्याससूत्रभाष्यं, (श्रीभाष्यं) भगवद्गीताभाष्यं, तर्कभाष्यं चेत्यादयो बहवो ग्रन्था विरचिताः । तथा चायं स्वमतस्थवैष्णवद्विजकृते एकां धर्मसंहितामपि रचयामास । एवं सर्वमपि जीवितकालं भगवद्भक्त्या वेदान्तादिग्रन्थपरिशी. लनेन च निर्यापितवान् । एनं सर्वेऽपि तदनुयायिनः शेषावतारं मन्यन्ते, अत एव तैः खाचार्यस्य धातुमयी प्रतिकृतिरपि निर्मिता सा चाद्यावधि पूज्यतेऽपि । अस्यैकमासनं 'तादरी' नाम्नि प्रामे तेङ्गल (महाराष्ट्रभाषायां 'सिंगल') पथप्रवर्तकं वर्तते । अहोबलनाम्नि मठे च 'वडघले, (भाषायां 'वडगळ' ) इत्याख्यसंप्रदायप्रवर्तकं च विद्यते, अन्यदप्येकमासनं 'गळता' इत्याख्यग्रामे वर्तते । वडघले-तेगलसंप्रदाययोः कालान्त. रेण मतभेदात् कलहश्चाजनि' इति । अत्रत्यमुद्रितपुस्तके च कल्पितोदन्तः ( दन्तकथा ) इति यहृतं निवेशितं तत्'खिस्तशकस्य ११ दो शतके दाक्षिणात्ये जनपदे ( दक्षिणहिन्दुस्थानाख्ये देशे) सामाजिकधार्मिकाचारसंबन्धेन महती चर्चा प्रवृत्ता । तत्समय एव चत्रपट्टणराजधा. न्यां (मद्रास इलाखा इति प्रसिद्धायां) चेङ्गलपटाख्यमण्डले वर्तमानस्य 'कजीवरम्' इति नगरस्य निकटवर्तिनि 'श्रीपरम्बुदरम्' इति प्रसिद्धपुरे ख्रिस्तशकस्य १००९ तमे वत्सरे श्रीरामानुजाचार्य इत्याह्वयः कश्चिद्विप्रोऽजनि । तेन वैष्णवो धर्मः प्रवर्तितः खयं च मनुजबान्धवः इत्युद्धोषितं च । ततश्च विजातीया अपि जनाः स्वधर्मे आनीताः, खकीयानुयायिजनेषु च निघृणवद्योतका विधवावपनप्रवृत्तिनिरुद्धा, इय. मेव रीतिस्तदनुयायिष्वद्यावधि वर्तत एव । किंच तज्जनमध्यगा विधवा अपि वपनं कारयितुं नैवोत्सहन्ते, किंतु ‘यान्यस्माकं शिरांसि गुरोः पुरतोऽवनामितानि, तानि नापितस्याग्रेऽवनामयितुं नार्हाणि' इति वदन्ति च । एवं कतिपये काले गते सति तत्प्रगत्यैव हेतुभूतया तदीयः पन्था द्विधा विभिन्नः । ततः कतिपयैर्जनैः 'वडघले' अथवा 'उत्तरदेशीयाः' इत्यभिधानं स्वीकृतम् । एवं चैतैर्जनैः उत्तरदेशीयाः वैदिकाः शास्त्रीयाश्चाचाराः संमानिताः । अयं विश्वगुणादर्शप्रणेता कविः एतन्मतस्थ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 331