Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ नमः परमात्मने भूमिका. भो भो विविधकाव्य-नाटकालंकार-साहित्यपारावारपारीणाः सहृदया मनीषिणः, विदांकुर्वन्तु तत्रभवन्तः-गीर्वाणभाषापारावारतितीप्रूणां सरसकाव्यपरिशीलनतरणिसमारोहणं विना उपायान्तरं तावन्न श्रूयते । तदर्थमेव च कविकुलगुरुश्रीकालि. दास-भवभूति-बाणभट्टप्रभृतिभिः कविमण्डलाप्रेसरै रघुवंश-कुमारसंभव. मालतीमाधव-कादम्बर्यादीनि सपदि रसिकजनमनोविनोदजनकानि संस्कृतभाषाव्युत्पित्सुजनानां सद्यः सम्यक्तया तद्वयुत्पत्तिसंपादकानि च गद्य-पद्यप्रचुराणि काव्यादीनि विरचितानि जाग्रत्येव । एतादृशकाव्यस्यैव च लक्षणादिपरिज्ञानार्थ तदवान्तरव्यङ्ग्य-ध्वनि-रस-दोष-गुणालंकारादिप्रतिपादनार्थ च तत्रभवद्भिर्मम्मटादिभिः काव्यप्रकाशादयो ग्रन्था विरचितास्तत्र च "तददोषौ शब्दार्थों सगुणावनलंकृती पुनः क्वापि" इत्यादि काव्यलक्षणं च निर्दिष्टम् । (अत्र तच्छब्देन काव्यं ज्ञेयम् ) कैश्चित् तु “रमणीयार्थप्रतिपादकः शब्दः काव्यम्" इत्यायेव लक्षणमुक्तम् । कथम. प्यस्तु, परं च उभयत्रापि आखाद्यव्यञ्जकत्वरूपलक्षणस्य विद्यमानखात् सहृदयहृदयालादजनकं काव्यम् इति सामान्यतः संक्षिप्तलक्षणं भवितुमर्हति । तच्च केवलं पद्यरूपं, गद्यरूपं, गद्यपद्यमित्रं वास्तु, सर्वमपि तत्पूर्वोक्तलक्षण एवान्तर्भवति । किंच तत् दृश्य-श्रव्यभेदात् द्विधा भिन्नं, यत्केवलं वाचन-श्रवणसमंकालमेव रसिकजनानां मनसि आहादजननपूर्व चमत्कारं जनयति तच्छ्रव्यम् । यच्च धीरवीरपुरुषचरितप्रचुरं विशेषतः प्रत्यक्षतयाभिनीय प्रदर्शितं सद्रसविचित्तमानन्दयति तदृश्यम् । अत एव तन्नाटकमित्यभिधीयते । पूर्वोक्तं च केवलं काव्यशब्देनैव व्यवह्रियते। एतस्मिन्नपि चम्पूशब्दाभिधेय एको भेदो भवति । तस्य लक्षणं च "गद्य-पद्यात्मकं काव्यं चम्पू. रित्यभिधीयते” इति प्रसिद्धम् । एतल्लक्षणसंपन्नैवेयं प्रकृता विश्वगुणादर्शचम्पू: प्रथते यस्संबन्धेन किंचिद्वक्तुमभिलषाम इति । - इयं च श्रीमता तत्रभवता सुगृहीतनाम्ना वेङ्कटाध्वरिणा महाकविना विरचिता । अयं श्रीरामानुजमतानुयायी श्रीमहालक्ष्म्या भक्तश्चासीत् । अयं तावत्क. स्मिन् काले आविर्भूय खपितरावानन्दयत् तदादि प्रत्यक्षतया न प्रतीयते, किंतु अनेनास्मिन्नेव ग्रन्थे द्वितीय तृतीयश्लोकयोः संक्षेपेण स्वकीयवृत्तं निवेदितं तस्मादयं श्रीमदप्पयगुरोर्नप्ता, श्रीरघुनाथदीक्षितस्य च पुत्र इत्येव ज्ञायते । अयमप्पयगुरुः कुवलयानन्द-चित्रमीमांसादिग्रन्थकर्तुस्तत्रभवतः अप्पयदीक्षितादिन इत्यवगम्यते । यतः स अप्पयदीक्षितो द्रविडजातीयः, भगवतः श्रीशिवस्य परमो भक्तः, अद्वैतमतपक्षपाती, वैष्णवमतखण्डकश्चासीदिति तदृत्ततः श्रूयते । किंच व्यङ्कटपतिनामधेयस्य कस्यचिद्राज्ञः सभायां वेदान्त-धर्मशास्त्रादिविषये For Private And Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 331