Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:
आसीत् । अन्ये च ये केचित् पूर्वमेव पन्थानमाश्रित्य स्थितास्ते 'तेङ्गले' अथवा 'दाक्षिणात्याः' इत्याख्यया प्रसिद्धाः । एवमयं भेदोऽद्यापि वर्तत एव । ततश्च 'वडघले' इतिमतस्थजनैर्या तेङ्गलीयानामवमानना कृता, तैः सह या च स्पर्धा प्रकटीकृता, अन्ये च ये छलप्रकाराः कृतास्तेषां सर्वेषामपि स्फुटीकरणार्थमयं ग्रन्थोऽनेन कविना व्यरचि' इति ।
एतत्सर्वमपि वृत्तं काल्पनिकमेवेति न वक्तुं शक्यते। यतः रामानुजीयपथविषये श्रीमता वेङ्कटाध्वरिणाप्येतस्मिन् विश्वगुणादर्श रामानुजवर्णने कृशानुभाषणे
हत्वा मार्गे द्विजादीनखिलमपि धनं हन्त हृवातिदृप्ता
दुर्वृत्तास्तस्करा ये वनगिरिनिलया ये च नीचा इहान्ये ॥ कृत्वा चक्राङ्कमेषां झटिति विदधतः किंच मन्त्रोपदेशं
तदत्तैरेव वित्तैर्दधति तनुममी वंशपारंपरीभिः ॥ किंच-जारान् चोरान् किरातान् जनपददमनान् राजपाशान्महीशान्
शिष्यान कृखातिहप्ताः श्रतिपथविधुराः श्रोत्रियैब्रह्मनिष्कैः ॥ साकं नो भुञ्जतेऽमी सकृदपि विनतिं कुर्वतेऽग्रे न तेषां
संकेतेनैव सिद्धं तदिदमविदुषां श्लाध्यमाचाथपुंस्त्वम् ॥'
इत्यादिना तेषां दोषोद्धाटनं कृतं, सम्यक्तया तदुद्धरणं च न कृतं तस्मादेव निश्चीयते तेङ्गलसंप्रदायिनां जनानां विजातीयजनानामपि मन्त्रोपदेशकरणादि नास्मै रोचते इति च । वयं तु ग्रन्थनिर्माणे एतावदेव कारणमिति न निश्चिनुमः, किंतु विश्ववैचित्र्यद्योतनमेव ग्रन्थनिर्माणहेतुरिति, अन्यथा इतरक्षेत्र-देवता-संप्रदायादिवर्णनस्य निष्फलत्वप्रसङ्ग आपद्येत । किंच स्वसंप्रदायदृढीकरणार्थका अन्ये बहवो ग्रन्था अनेनैव विरचिता इति श्रूयते । अस्तु वा अन्यत्किमपि कारणं तत्राधिकलेखनं न सांप्रतम् । अथास्य विश्वगुणादर्शग्रन्थस्य कालनिर्णायकं लिङ्गं अस्मिन्नेव ग्रन्थे दृश्यते तत्'हूणाः करुणाहीनास्तृणवत् ब्राह्मणगणं न गणयन्ति ।
तेषां दोषाः पारेवाचां ये नाचरन्ति शौचमपि ॥' इत्यादि यत् हुणानां (गौरकायाग्लदेशीयानां) वर्णनम् । तस्मादनुमीयते-ख्रिस्तशकस्य १६४० तमे वर्षेऽयं ग्रन्थो विरचित इति । अस्मिन् रसालंकारादीनि काव्यलक्षणानि सर्वत्र परिपूर्णतया दृश्यन्ते, तथापि अर्थालंकारापेक्षया शब्दालंकारेष्वेव (अनुप्रास-यमकादिषु) कवेरतीवादरो दृश्यते, तदनुसंधानादेव क्वचित् क्लिष्टत्वाप्रसिद्धशब्दप्रयोगादयो दोषाः प्रादुर्भवन्ति । एवमपि काव्यस्य सहजमाधुर्य-प्रौढलादयो गुणा न विलीयन्ते, तत एवास्य वश्यवचस्वं स्फुटीभवति । तथा चास्मिन् विश्वगुणादर्श तदभिधानानुरूपाः सर्वेऽपि विषया न विद्यन्ते, सतामपि विषयाणां आ मूलात् समाप्तिपर्यन्तं एकैव पद्धतिर्नावलोक्यते । अस्य हि प्रथमत एवं रीतिः विश्वावलोककुतूहलौ कृशानु-विश्वावसू द्वौ गन्धर्वो कल्पितौ । तन्मध्ये एकः (कृशानुः) दोषैकक्, अपरो (विश्वावसुः ) दृश्यवस्तुनो गुणग्रहणकौतुकी चासीत् । ततः दृष्टिपथं
For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 331