Book Title: Visheshavashyaka Mahabhashya Sswopagnya Tikanu Astitva
Author(s): Punyavijay
Publisher: Punyavijayji

View full book text
Previous | Next

Page 2
________________ વિશેષાવશ્યક મહાભાષ્ય-સ્વાષજ્ઞ ટીકાનું અસ્તિત્વ [13 सयलं । कश्चासौ ? आवश्यकानुयोगः । अवश्यक्रियानुष्ठानादी आवश्यकम्, अनुयोजनमनुयोगः अर्थव्याख्यानमित्यर्थः, आवश्यकस्यानुयोग आवश्यकानुयोगः तम् आवश्यकानुयोगम् । गृणंति शास्त्रार्थमिति गुरवः, ब्रुवन्तीत्यर्थः, ते पुनराचार्याः अर्हदादयो वा तदुपदेशः तदाज्ञा गुरूपदेशानुसारः, गुरूपदेशानुवृत्तिरित्यर्थः, तया गुरूपदेशानुवृत्त्या गुरूपदेशानुसारेणेति । तस्स फल० गाहा ॥ [ प्रवर्त्तकप्रति पत्र १ ] ઉપર કહેવાઈ જ ગયું છે કે ભગવાન શ્રી જિનભદ્ર ક્ષમાશ્રમણ, ટીકાની રચના કરતાં, એકાએક સ્વવાસી થઈ ગયા છે; એટલે તેને ઉપસંહાર, પુષ્પિકા કે પ્રશસ્તિ આપણને મળી શકે તેમ નથી. આ સ્થિતિમાં પ્રસ્તુત ટીકાના રચિયતા ભગવાન શ્રી જિનભદ્રગણિ ક્ષમાશ્રમણ છે કે હતા એ હકીકત આપણતે તેમના પેાતાના શબ્દોમાં મળી શકે તેમ નથી, પર ંતુ એ હકીકત આપણને ઉપરોક્ત ટીકાને પૂર્ણ કરવાનું મહાન પુણ્ય કાર્યો કરનાર ભગવાન શ્રી કેટ્ટા વાદિગણિ મહત્તરના ટીકાનુસંધાનના પ્રારંભિક અંશમાંથી મળી શકે છે, જે અશ આ નીચે આપવામાં આવે છે ; " ण ह वइ० गाहा ॥ सौम्य ! " न ह वै [ स ] शरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वावसन्तं प्रियाप्रिये न स्पृशत: इत्येषां च वेदपदानां न वाक्यार्थमवबुध्यते भवान् अतः संशेते किमिह बन्धमोक्षौ स्यातां न वेति । न चेह संशयोऽनुरूपस्ते, यतो निष्पष्टमेवेदमुच्यतेसशरीरस्येति । बाह्याध्यात्मिकानादिशरीरसंतानमयो बन्धः । तथाऽशरीरं वाव सन्तमित्यशेषशरीरापगमस्वभावो मोक्ष इति । छिण्णम्मि० गाहा ॥ निर्माप्य षष्ठगणधर वक्तव्यं किल दिवंगताः पूज्याः । 'अनुयोगमार्यदेशिक ( ? ) जिनभद्रगणिक्षमाश्रमणाः ॥ छ ॥ तानेव च प्रणिपत्यातः परमवि (व ? ) शिष्टविवरणं क्रियते । कोट्टार्यवादिगणिना मन्दधिया शक्तिमनपेक्ष्य संघटनमात्रमेतत् स्थूलकमतिसूक्ष्मविवरणपदस्य । ॥ १ ॥ Jain Education International शिवभक्त्युपहृतलुब्धकनेत्रवदिदमननुरूपमपि सुमतिस्वमतिस्मरणादर्श ( ? ) परानुवचनोपयोगवेलायाम् ॥ मद्वदुपयुज्यते चेद्, गृह्णन्त्वलभा ( सा ) स्ततोऽन्येऽपि ॥ २ ॥ अथ सप्तमस्य भगवतो गणधरस्य वक्तव्यतानिरूपणसम्बन्धनाय गाथाप्रपंच: - ते पव्वइए सोउं० । आभट्टो य० । किं मण्णे अत्थि देवा० तं मण्णसि णेरयिता० । सच्छंदचारिणो पुण० । दे मौर्यपुत्र ! आयुष्मन् काश्यप ! त्वं मन्यसे - तारकाः संक्लिष्टासुरपरमधार्मिकायत्ततया कर्मवशतया परतन्त्रत्वात् स्वयं च दुःखसंप्रतप्तत्वाद् इहाऽऽगन्तुमशक्ताः, अस्माकमप्यनेन शरीरेण तत्र गन्तु कर्मवशतयैवाशक्तत्वात् प्रत्यक्षीकरणोपायासम्भवादागमगम्या एव श्रुति - स्मृतिग्रंथेषु श्रूयमाणाः श्रद्धेया भवन्तु ये पुनरमी देवा ते स्वच्छन्दचारिणः कामरूपाः दिव्यप्रभावाश्च किमिति दर्शनविषयं नोपयान्ति ? किमिह नाऽऽगच्छन्तीत्यभिप्रायः, अवश्यं न सन्ति येनास्मादृशानां प्रत्यक्षा न भवन्ति अतो न सन्ति देवाः, अस्मदाद्यप्रत्यक्षत्वात्, खरविषाणवत् श्रूयंते च श्रुत्यादिषु, तद् आगमप्रामाण्यादनुमानगम्यत्वाद्वा परमाण्वादिवत् किं सन्तीति । एवं भवतो देवेषु संशयः । मा १. " अनुयोगमार्गदेशक " पाठ ही स ंभवे छे. २. " सुमतिः स्मरणादर्शः " मेव। पाठ खडी संगत लागे छे. For Private & Personal Use Only ॥ ३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6