Book Title: Vijayprashasti Mahakavyam Author(s): Hemvijay Gani, Gunvijay Gani Publisher: Jinshasan Aradhana Trust View full book textPage 6
________________ प्रस्तावना । एतस्य विजयप्रशस्तिनान्नो महाकाव्यस्य विनिर्मातॄणां कविमतल्लिकानां श्रीहेमविजयगणीनां सत्तासमयः सप्तदशशताब्दीरूपः, इति तैरेव स्वविरचितेषु प्रन्थेषूपनिबद्धैस्तैस्तैरुल्लेखैः सुस्पष्टं निष्टङ्कयते, तथाहि श्रीपार्श्वनाथचरितमहाकाव्ये " तस्याऽणुके निखिलशिष्य भुजिष्यरेखा यस्मिन् समस्ति गणितेव विशारदेन्दोः । श्रीपार्श्वनाथचरितं रचयाञ्चकार हर्षेण हेमविजयः शिवलक्ष्मिकाङ्क्षी ॥ इक्-कृशानु-रस-सोममितेऽब्दे शक्रमन्त्रिणि दिने द्वयसंज्ञे । हस्त च बहुलेतरपक्षे फाल्गुनस्य चरितं न्यरचीदम्” ॥ श्री ऋषभशतकप्रन्थेऽपि - “श्रीहीरहीरविजयव्रतिराजपट्टपद्मांशुमद्विजयसेनमुनीन्द्रराज्ये । श्रीस्तम्भतीर्थनगरे रस-बाण-भूप वर्षे समाप्तिमगमच्छतकं सदर्थम् " ॥ श्रीकथारत्नाकरे च “अहिमनगरद्वङ्गे वर्षेऽश्वे -पु-रसा ऽवनौ । मूलमार्तण्डसंयोगे चतुर्दश्यां शुचौ शुचेः " ॥ एभिः श्रीहेमविजयगणिभिः पार्श्वनाथमहाकाव्यम्, कथारलाकर, अन्योक्तिमुक्तामहोदधिः कीर्तिकल्लोलिनी, स्तुतित्रिदशतरङ्गिणी, सूक्तरत्नावली, कस्तूरीप्रकरः, सद्भावशतकम्, विजयस्तुतयः, इत्यादयबहवो विद्वत्तापरिपूर्णा प्रन्था विनिर्ममिरे, येषामन्यथाऽनुपपद्यमानतया ग्रन्थकर्तॄणां विशिष्टक्षयोपशमाविर्भूतो नैसर्गिकः, अन्यान्यविषयप्रन्यसन्दर्भविलोकनसहकृतश्च संस्कृतः प्रतिभाप्रकर्षो निःसंदिग्धमनुमीयतेPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 728