Book Title: Vijayprashasti Mahakavyam Author(s): Hemvijay Gani, Gunvijay Gani Publisher: Jinshasan Aradhana Trust View full book textPage 8
________________ ( ३ ) "विजयप्रशस्तिकाव्यप्रकाशिका विजयदीपिका टीका । विदधे विक्रमनृपतेर्वर्षे वसु-वसु- नृप १६८८ प्रमिते टीकाविनिर्मितिस्थलान्यपि तत्प्रशस्तौ ग्रन्थकृद्भिरेकेन श्लोकेन ॥ ६२ ॥ विनिर्दिष्टानि, स चायम् "प्रारब्धेादुर्गे बही विदधे च योधपुरदुर्गे । श्रीमालेsपि च कियती श्रीरोहिण्यां च पूर्णेयम् " ॥ ६४ ॥ एतयोश्च मूलकार - टीकाकारयोः कविप्रवरयोरत्यासन्नसंबन्धित्वेन समानमेव गुरुपारम्पर्यम्, तच्च "पूर्व तपागणेऽभूवन् मुनिसुन्दरसूरयः । 39 ॥ ३० ॥ तेषां राज्ये विरेजुः श्रीलक्ष्मीभद्राभिधा बुधाः इत्यादिभिः पद्यैः, टीकाकाराः प्रशस्तौ विस्तरेण प्रत्यपीपदन्, इति तत एव विदाङ्कुर्वन्तु विद्वांसः । अधिकृतं चात्र ग्रन्थे महामहिम्नां चातुर्वैद्य महोदधीनां श्रीहीरविजयसूरि-श्रीविजयसेनसूरिश्रीविजयदेवसूरीश्वराणामैतिहासिकं सर्व वृत्तान्तम् । सम्यग् निर्वर्णितं च कविपुरन्दरै रससुधाधाराऽविघातीनि, सुसंबद्धपद्धतिमलङ्कुर्वन्ति नानालङ्कारालङ्कृतानि पद्यान्युपन्यस्यद्भिर्विविधवस्तुवर्णनेन महाकाव्यानुरूपस्वरूपम् । प्राग्दत्तया विषयानुक्र "" १ एते सूरयः श्रीजिनस्तोत्ररत्नकोश - उपदेशरत्नाकर - अध्यात्मकल्पद्रुम - गुर्वावल्यादीन् बहून प्रन्थान् व्यररचन्, सहस्रावधानित्वेन च परां प्रसिद्धिमासादितवन्तः । २ एभिरेव श्रीरत्नशेखरसूरीणां श्राद्धप्रतिक्रमणसूत्रवृत्तिः संशोधिता, इति श्रीरत्नशेखरसूरय एव वैक्रमे षडङ्कविश्वमिते वर्षे रचितायां तस्यामुल्लिखन्ति“चातुर्वैद्योदधिभिर्दधिभिर्दधिशुद्धपरमपरभागम् । साऽशोध्यत प्रयत्नाल्लक्ष्मीभद्राह्वविबुधेन्द्रैः ” ॥ श्रीप्रतिष्ठा सोमगणयोऽपि निजे सोमसौभाग्यकाव्ये तेषां विषये नामग्राहमेवं बदन्ति लक्ष्मीभद्रबुधः. . विदुरहृत्पद्मप्रबोधांशुमान् । ..............Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 728