Book Title: Vijaychandrasuri Virachit Raivatachal Chaityaparipati Stavan
Author(s): Babulal S Shah
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf

View full book text
Previous | Next

Page 5
________________ સ'. ૫. ખાજુભાઈ સવચંદ શાહ पत्रिंशदभ्यधिकया मुनिपञ्चशत्या नेमिर्निषन्नवपुषाऽनशितच भासम् । यस्मिन् जगाम शिवमद्भुतधाम धाम श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥ ९॥ श्रीजैनबिम्बभृतवासवमण्डपस्थाः श्रीने मिमज्जनमहोत्सवबद्धकक्षाः । यस्मिन् सहस्रनयना भविनो भवन्ति श्रीमानसौ विजयतां गिरिरुन्जयन्तः ॥ १० ॥ यत्रावतार इव सर्व सरस्वतीनाम् रम्य सदैव सलिलैरमृतायमानैः । कुण्ड' विराजति गजेन्द्र पदाभिधानम् श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥ ११॥ अष्टापदप्रभृतिकीर्त्तनकीर्त्तनीये श्रीवस्तुपालसचिवाधिपतेर्विहारे । यत्र स्वयं निवसति प्रथमा जिनेन्द्रः श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥ १२॥ सिंहासनावर सुवर्ण - सुवर्णदेहा पुष्पन्धयी पदपयोरुहि नेमिभर्तुः यत्राका वितनुते किल सङ्घरक्षाम् Jain Education International श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥ १३॥ शैवेयदेवपदपङ्गकजसङ्गचङ्गम् शृङ्ग' विलोक्य भविका अवलोकनाख्यम् । यस्मिन् नजानि नयनानि कृतार्थयन्ति श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥ १४॥ श्री जाम्बुवत्युदरकन्दरसिंहपोतः शापः सितखैर्भवकुम्भिकुम्भम् । यस्मिन् बभञ्जकिल मौक्तिक लाभ हेतोः श्रीमानसौ विजयतां गिरिरुजयन्तः ॥ १५॥ श्रीरुक्मिणीसुतमुनिः शिखरे यदीये तेपे तपांसि सुभगंकरणानि कायम् । सम्बन्धबद्धहृदयः किल सिद्धवध्वाम् श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥ १६॥ For Private & Personal Use Only ૧૧ www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6