Book Title: Vijapur Vrutant
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 34 ) वर्णाः सदा ब्राह्मण शस्त्रपाणिवैश्यास्तथा शूद्रमुखादयोऽन्ये । स्वधर्मनिष्ठा भवदीयशासनाद्, विद्वेषभावं परितस्त्यजन्ति ॥ ९ ॥ क्रियाकलापा निजधर्मकल्पाः, समस्तभावेन सुसिद्धिभाजः । तन्मूलहेतुर्भवतः प्रतापः, समस्ति कामाद्यरिधूमकेतुः ॥ १० ॥ देशान्तरे बंभ्रमणोत्सुकोऽन्यः, करते तुलां लब्धुमनल्पधैर्यः । योग्यो भवेद्धसविविक्तबुद्धे Acharya Shri Kailassagarsuri Gyanmandir गृहीतदुग्धोज्ज्वलतत्त्वराशेः ॥ ११ ॥ फलानुमेयानि भवन्ति लोके, कार्याणि ते धातुरिवोत्तमानि । विवेकविज्ञानविवर्धकानि, प्रजाप्रमोदैकसमृद्धिभाजि ॥ १२ ॥ विद्यालया एव समस्त देश माश्रित्य ते शासनतो विभान्ति । स्थानं न किञ्चित् प्रतिभाति तादृग्, नो यत्र बालाः प्रपठन्ति विद्याम् ॥ १३ ॥ विद्योष्णरश्मिस्तव मानसस्थः, प्रकाशयादेव सदा धरित्रीम् । चित्रं तदस्त्येव नमः स्थितोऽयं, न तत्तुलां प्राप सहस्ररश्मिः ॥ १४ ॥ कलानिधानः स्वयमेव भासि, सर्वार्थसंसाधनमुख्यबीजम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93