Book Title: Vijapur Vrutant
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३४ ) दानं भूरि ससस्क्रियं प्रतिदिनं संराजतेऽस्य प्रभो जीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ २ ॥ यस्यानिन्द्यतमप्रतापनिचयः संशोभते सर्वदा, यातीवास्तमिति प्रचण्डकिरणः संक्षुभ्यमानो हृदि । पीयूषोज्ज्वलयद्यशो विजयते क्षीणस्ततोऽब्जो नु किं ?, जीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ ३ ॥ सज्यं येन कृतं कदापि न धनुः कोपाकुलं चाननं, शौर्योदार्यविशेषभूषितवपुर्यष्ट्या क्षमोदन्वता । यस्याज्ञां शिरसा वहन्ति तदपि प्रेम्णा प्रजापालका, जीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ ४ ॥ कान्ता यस्य गुणाः सदा स्फुटतरा राजन्ति भूवर्तिनो, भीमा भूरिभयप्रदाश्च नितरां विद्वेषिणां भूपतेः । गम्यस्तेन भवत्ययं जनवरैधृष्यो न चान्यैर्जनै ीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥५॥ यद्राष्ट्र नितरां फलन्ति शुभदा: सामाधुपाया इव, सम्यग्योग-सुसस्क्रिया-शुभपदे संप्रापिताः संपदः । संघर्ष समुपेत्य बृंहिततरो दर्का यका आर्थिका नीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ ६ ॥ स्वायत्तीकृतशात्रवेण पदवीं श्रीमानवीं पित्सुना, सम्यग् भागतया विविच्य विधिना रात्रिंदिवं पौरुषम् । नष्टालस्यावमोहमाररुचिना तंतन्यते न्यायतो, जीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ ७ ॥ यद्राष्ट्रीयजनेषु चौर्यवचनं संश्रूयते शास्त्रगं, दीप्रेणोत्तमशासनेन च सदा नीतिप्रवादः परः । वैरत्रासविवाददूषणगणो वैराग्यतां संगतो, जीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ ८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93