________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३४ )
दानं भूरि ससस्क्रियं प्रतिदिनं संराजतेऽस्य प्रभो
जीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ २ ॥ यस्यानिन्द्यतमप्रतापनिचयः संशोभते सर्वदा,
यातीवास्तमिति प्रचण्डकिरणः संक्षुभ्यमानो हृदि । पीयूषोज्ज्वलयद्यशो विजयते क्षीणस्ततोऽब्जो नु किं ?,
जीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ ३ ॥ सज्यं येन कृतं कदापि न धनुः कोपाकुलं चाननं,
शौर्योदार्यविशेषभूषितवपुर्यष्ट्या क्षमोदन्वता । यस्याज्ञां शिरसा वहन्ति तदपि प्रेम्णा प्रजापालका,
जीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ ४ ॥ कान्ता यस्य गुणाः सदा स्फुटतरा राजन्ति भूवर्तिनो,
भीमा भूरिभयप्रदाश्च नितरां विद्वेषिणां भूपतेः । गम्यस्तेन भवत्ययं जनवरैधृष्यो न चान्यैर्जनै
ीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥५॥ यद्राष्ट्र नितरां फलन्ति शुभदा: सामाधुपाया इव,
सम्यग्योग-सुसस्क्रिया-शुभपदे संप्रापिताः संपदः । संघर्ष समुपेत्य बृंहिततरो दर्का यका आर्थिका
नीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ ६ ॥ स्वायत्तीकृतशात्रवेण पदवीं श्रीमानवीं पित्सुना,
सम्यग् भागतया विविच्य विधिना रात्रिंदिवं पौरुषम् । नष्टालस्यावमोहमाररुचिना तंतन्यते न्यायतो,
जीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ ७ ॥ यद्राष्ट्रीयजनेषु चौर्यवचनं संश्रूयते शास्त्रगं,
दीप्रेणोत्तमशासनेन च सदा नीतिप्रवादः परः । वैरत्रासविवाददूषणगणो वैराग्यतां संगतो,
जीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ ८॥
For Private And Personal Use Only