________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( 34 )
वर्णाः सदा ब्राह्मण शस्त्रपाणिवैश्यास्तथा शूद्रमुखादयोऽन्ये ।
स्वधर्मनिष्ठा भवदीयशासनाद्,
विद्वेषभावं परितस्त्यजन्ति ॥ ९ ॥
क्रियाकलापा निजधर्मकल्पाः,
समस्तभावेन सुसिद्धिभाजः ।
तन्मूलहेतुर्भवतः प्रतापः,
समस्ति कामाद्यरिधूमकेतुः ॥ १० ॥ देशान्तरे बंभ्रमणोत्सुकोऽन्यः,
करते तुलां लब्धुमनल्पधैर्यः ।
योग्यो भवेद्धसविविक्तबुद्धे
Acharya Shri Kailassagarsuri Gyanmandir
गृहीतदुग्धोज्ज्वलतत्त्वराशेः ॥ ११ ॥ फलानुमेयानि भवन्ति लोके,
कार्याणि ते धातुरिवोत्तमानि ।
विवेकविज्ञानविवर्धकानि,
प्रजाप्रमोदैकसमृद्धिभाजि ॥ १२ ॥ विद्यालया एव समस्त देश
माश्रित्य ते शासनतो विभान्ति ।
स्थानं न किञ्चित् प्रतिभाति तादृग्,
नो यत्र बालाः प्रपठन्ति विद्याम् ॥ १३ ॥ विद्योष्णरश्मिस्तव मानसस्थः,
प्रकाशयादेव सदा धरित्रीम् ।
चित्रं तदस्त्येव नमः स्थितोऽयं,
न तत्तुलां प्राप सहस्ररश्मिः ॥ १४ ॥ कलानिधानः स्वयमेव भासि, सर्वार्थसंसाधनमुख्यबीजम् ।
For Private And Personal Use Only