________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तेनैष शीतांशुरनुक्रमेण,
विश्रामहेतोः क्षयतां प्रयाति ॥ १५ ॥
( 33 )
कौमारके न्यस्तसमस्तविद्यः, सुयौवनं प्राप्य सुनीतिरीत्या ।
वृतः प्रजापालन कार्यभारः,
चकास्ति सर्वत्र जयानुमेयः ॥ १६ ॥
प्रतिपुरं त्वया वाचनालया,
अपि निरूपिता ग्रबुद्धयः ।
विविधदेशगं येषु भावुकं,
श्रुतिपथं सदा कुर्वते स्थिताः ॥ १७ ॥
रचितवानहो ! ज्ञानवृद्धये,
प्रचुरसाधनाः शर्मसेवधीन् ।
परिषदो भवान् विश्वगोपका,
नवनवोत्थितां देशनोपमां,
जनहितैकसाधनोद्यतः सदा ॥ १८ ॥
वचनसन्ततिं भव्यजन्तवः ।
भवमहोदधौ सार्थकं जना,
Acharya Shri Kailassagarsuri Gyanmandir
विदधते भवत्प्रेमदृष्टितः ॥ १९ ॥
तव कलाशशी भूषयत्यहो !,
विषयशर्वरीं शर्मसेविनीम् |
प्रतिदिनं विभोऽभ्युन्नतिक्रम
शरणतत्परां नित्यराजनीम् ॥ २० ॥
कुसुमतोऽधिकानन्ददायिनीं,
मुदितमानसास्तावकीं धियम् ।
गुणगणान्वितां जानते जनाः, शिवफलप्रदामायतिक्षमाम् ॥ २१ ॥
For Private And Personal Use Only