Book Title: Vidwanono Kavya Vinod Author(s): Bhuvanchandravijay Publisher: ZZ_Anusandhan View full book textPage 3
________________ डिसेम्बर २०११ ११ व्याख्या स मृड: ईश्वरः वः युष्माकं मुदे हर्षाय स्तात् भवतु । किंविशिष्टः ईश्वरः ? वाश्चारेड्ध्वजधक् । वाः पानीयं तत्र चरन्ति इति वाश्चाराः मत्स्याः । तेषां ईट् स्वामी मकरः वाश्चारेट् । स ध्वजश्चिह्नं यस्य स वाश्चारेट्ध्वजः कामस्तं दहतीति वाश्चारेड्ध्वजधक् । पुनः किंविशिष्टः मृड: ? धृतोड्वधिपकः । धृतः उडूनां अधिपो येन स धृतोड्वधिपः । धृतोड्वधिप एव धृतोड्वधिपकः । पुनः किंविशिष्टः मृड: ? कुध्रेड्जजानिः । कुध्राः पर्वतास्तेषां इट् स्वामी हिमाचल: । तस्माज्जाता कुध्रेड्जा पार्वती । सो जानिर्जाया यस्य स कुध्रेड्जजानि: । पुनः किंविशिष्ट: मृड: ? गणेट् । गणानां ईट् गणेट् । पुनः किंविशिष्टो मृड: ? गोराट् । गो (गौ) र्वृषभस्तेन राजते इति गोराट् । पुनः किंविशिष्टो मृड:? आरुडुरस्सरडुरुतरग्रैवेयकभ्राट् । आरुट् सरोषो योऽसौ उरस्सरः सर्पः आरुडुरस्सरः । तस्य ईट् स्वामी आरुडुरस्सरेट् एव उरुतरं ग्रैवेयकं कण्ठभूषा तेन भ्राजते इति आरुडुरस्सरेडुरुतरग्रैवेयकभ्राट् । अरं अत्यर्थम् । पुनः किंविशिष्टो मृड: ? उड्वीडुक् । उडूनि नक्षत्राणि तेषां ईट् स्वामी चन्द्रः । तद्वन्निर्मला रुक् कान्तिर्यस्य स उड्वीडुक् । पुनः किंविशिष्टो मृड: ? नरकास्थिधृत् । नरस्य कं मस्तकं, तस्य अस्थि नरकास्थि, तत् धरति इति नरकास्थिधृत् । पुन: किंविशिष्टो मृड: ? त्रिदृक् । तिस्रो दृशो विद्यन्ते यस्य स त्रिदृग् । पुनः किंविशिष्टो मृडः ? इभेडार्द्राजिनछत्रभृत् । इभाः हस्तिनः । तेषां ईट् इभेट् । तस्य आर्द्रं यत् अजिनं चर्म तदेव छत्रं आर्द्राजिनछत्रं । तत् बिभर्तीति आर्द्राजिनछत्रभृत् । पुनः किंविशिष्टो मृड: ? अम्बुमदम्बुदा लिकलरुग्ग्रीवः । अम्बु विद्यते यत्र स अम्बुमान् । अम्बुमान् योऽसौ अम्बुदो मेघ: अम्बुमदम्बुदः । तस्य आलिः अम्बुमदम्बुदालि:, तद्वत् कला मनोज्ञा कान्तिः रुक् यस्याः सा अम्बुमदम्बुदालिकलरुक् । ईदृशी ग्रीवा यस्य सः अम्बुमदम्बुदालिकलरुग्ग्रीवः । ईदृशो मृड: वः पातु ॥१॥ इति श्रुतिकटुश्लोकार्थः समाप्तः । समस्या शरक्षेपे प्रष्टं किमयुतमितिः क्व भ्रमणकृत् क आद्यं तद्रूपं वद नभ इदं क्वोच्चतनुभाक् ।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17