Book Title: Vidwanono Kavya Vinod
Author(s): Bhuvanchandravijay
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229431/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ डिसेम्बर २०११ विद्वानोनो काव्यविनोद - उपा. भुवनचन्द्र 'अनुसन्धान'मां जैन श्रमणो द्वारा रचित संस्कृत-प्राकृत पद्यरचनाओ प्रगट थती रहे छे. आ रचनाओमां प्रभुभक्ति-धर्मनिष्ठानां दर्शन थाय छे, एम जैन श्रमणोनी विद्वत्ता तथा साहित्यप्रीतिनां पण दर्शन थाय छे. जैन ग्रन्थभण्डारोमां एवी पण रचनाओ मळे छे जेमां श्रमणोनो काव्य-शास्त्र विनोद मुखर थतो होय छे हस्तलिखित प्रकीर्ण पत्रोमांथी प्राप्त थयेल आवी काव्यविनोदलक्षी चार रचनाओ अहीं प्रस्तुत करी छे.. ___ 'श्रुतिकटुश्लोक' अने तेनी व्याख्याना कर्तानुं नाम पत्रमा उल्लेखित नथी. श्लोक जैनेतर कविनो रचेलो होय ए सम्भवित छे परंतु तेनी व्याख्या जैन मुनि रचित होवानो पूरेपूरो सम्भव छे, केमके समस्यावाळा श्लोको ए ज पत्रमा छे अने ए जैन श्रमणनी ज रचना छे. बन्नेमां तीर्थङ्करोनो उल्लेख छे. कर्तानो उल्लेख नथी. आ त्रणे कृतिओ एक पत्रमा छे. वर्णमालाना अक्षरो वडे रचायेलो श्लोक अन्य पत्रमा छे. श्लोक अने टीका-बन्नेना कर्ता पं. लक्ष्मीकल्लोल गणि छे. एमनी अनेकार्थी अन्य रचना ही. र. कापडियाए नोंधी छे. एमनो समय वि.सं. १६०० पण 'जै.सा.सं. इतिहास'मां नोंधायो छे. उपलब्ध प्रकीर्ण पत्र जो के १८मा शतकनु जणाय छे. श्रुतिकटु श्लोक आ श्लोक तेना नाम प्रमाणे कर्णकटु छे अने अर्थहीन पण लागे छे, परंतु ते व्याकरणसिद्ध रचना छे. सन्धि-समास-तद्धित-शब्दकोशनो युक्तिभर्यो विनियोग करीने कविए कर्णकठोर वर्णविन्यास सिद्ध कर्यो छे. विवरणनी सहाय विना आ श्लोक समजवो सामान्य अभ्यासी माटे शक्य नथी. शिवनी स्तुतिरूपे रचायेला श्लोकना कर्तानो उल्लेख नथी. विवरणकर्ता, पण नाम नथी. समस्या ८ श्लोक अने ५ श्लोकोनी बे रचनाओ समस्या-पादपूर्तिरूप छे. Page #2 -------------------------------------------------------------------------- ________________ अनुसन्धान-५७ कविनी फलद्रूप कल्पनाशक्तिना मनोरञ्जक नमूना जेवी आ रचनाओ छे. बन्नेना रचयिता एक होवानी सम्भावना छे. प्रथम श्लोकमां केटलाक प्रश्नो छे जेमना उत्तरो वडे चोथु चरण बने छे. आ चोथा चरणने लइने पछीना सात श्लोकोमां पादपूर्ति करवामां आवी छे. प्रत्येक श्लोकमां नवनवी उत्प्रेक्षाओ करीने कविए पादपूतिनो निर्वाह कर्यो छे जे रसिक जनोने आनन्ददायक बने एवो छे. बीजा श्लोकनो भावार्थ जोईए - "नागराज धरणेन्द्रे पोतानी वक्राकार काया वडे श्यामवर्णा प्रभु पार्श्वनाथने धर्या छे, तेमना उपर फेण- छत्र धर्यु छे, तेनी उपर मेघ वरसे छे ते जाणे धनुष्यनी टोच पर भमरो, भमरा उपर पर्वत अने पर्वत उपर दरियो होय एवं लागे छे". धनुष्य, भमरो, पर्वत अने पाणीनी कल्पना बाकीना बधा श्लोकोमां कविए सुन्दर रीते निभावी छे... बीजी पादपूर्तिमां 'सोयना अग्रभागे छ कूवा,तेना उपर नगर अने तेनी उपर गङ्गाप्रवाह' एवी कल्पनाने पांच कल्पनाचित्रोमां वर्णवी छे. एमांनी एक कल्पना- “तीर्थङ्करनी आरती माटे ऊंचा थयेला हाथ ए सोय, आरतीमां छ खाडा होय छे ते छ कूवा, अग्निनी ज्योत ए नगर अने धूम्रसेर ते गङ्गाप्रवाह." द्वात्रिंशद्व्यञ्जनमय स्तुति वर्णमालाना अक्षरोने यथाक्रमे राखी, मात्र तेमने योग्य स्वरो लगाड़ी ३२ अक्षरोनो अनुष्टुप श्लोक रचवामां आव्यो छे. ज व्यञ्जनने बाकात राख्यो छे. अनुष्टप्ना ३२ अक्षरोनी मर्यादाने माटे आ जरूरी हतुं. एकाक्षर शब्दो ज लेवा एवा नियमो कविए स्वीकार्यो नथी, वर्णमालाना वर्णो तेमना क्रमे ज आववा जोईए एटलो ज आग्रह राख्यो छे. वधु अक्षरवाळा शब्दोने एवी युक्तिपूर्वक गोठव्या छे के तेमना मात्र व्यञ्जनो ज उच्चरित थाय छे. आ श्लोक पर कविए स्वयं टीका रची छे. बुद्धिमान जनोना मनोविनोद अर्थे आ रचना करी छे एम कर्ता जणावे छे. श्रुतिकटुश्लोकः वाश्चारेध्वजधक् धृतोड्वधिपकः कुथ्रेड्जजानिर्गणेटगोराडारुडुरस्सरेडुरुतरग्रैवेयकभ्राडरम् । उड्वीडुग्नरकास्थिधृत्रिदृगिभेडार्दाजिनच्छत्रभृत् स स्तादम्बुमदम्बुदालिकलरुग्ग्रीवो मुदे वो मृडः ॥ Page #3 -------------------------------------------------------------------------- ________________ डिसेम्बर २०११ ११ व्याख्या स मृड: ईश्वरः वः युष्माकं मुदे हर्षाय स्तात् भवतु । किंविशिष्टः ईश्वरः ? वाश्चारेड्ध्वजधक् । वाः पानीयं तत्र चरन्ति इति वाश्चाराः मत्स्याः । तेषां ईट् स्वामी मकरः वाश्चारेट् । स ध्वजश्चिह्नं यस्य स वाश्चारेट्ध्वजः कामस्तं दहतीति वाश्चारेड्ध्वजधक् । पुनः किंविशिष्टः मृड: ? धृतोड्वधिपकः । धृतः उडूनां अधिपो येन स धृतोड्वधिपः । धृतोड्वधिप एव धृतोड्वधिपकः । पुनः किंविशिष्टः मृड: ? कुध्रेड्जजानिः । कुध्राः पर्वतास्तेषां इट् स्वामी हिमाचल: । तस्माज्जाता कुध्रेड्जा पार्वती । सो जानिर्जाया यस्य स कुध्रेड्जजानि: । पुनः किंविशिष्ट: मृड: ? गणेट् । गणानां ईट् गणेट् । पुनः किंविशिष्टो मृड: ? गोराट् । गो (गौ) र्वृषभस्तेन राजते इति गोराट् । पुनः किंविशिष्टो मृड:? आरुडुरस्सरडुरुतरग्रैवेयकभ्राट् । आरुट् सरोषो योऽसौ उरस्सरः सर्पः आरुडुरस्सरः । तस्य ईट् स्वामी आरुडुरस्सरेट् एव उरुतरं ग्रैवेयकं कण्ठभूषा तेन भ्राजते इति आरुडुरस्सरेडुरुतरग्रैवेयकभ्राट् । अरं अत्यर्थम् । पुनः किंविशिष्टो मृड: ? उड्वीडुक् । उडूनि नक्षत्राणि तेषां ईट् स्वामी चन्द्रः । तद्वन्निर्मला रुक् कान्तिर्यस्य स उड्वीडुक् । पुनः किंविशिष्टो मृड: ? नरकास्थिधृत् । नरस्य कं मस्तकं, तस्य अस्थि नरकास्थि, तत् धरति इति नरकास्थिधृत् । पुन: किंविशिष्टो मृड: ? त्रिदृक् । तिस्रो दृशो विद्यन्ते यस्य स त्रिदृग् । पुनः किंविशिष्टो मृडः ? इभेडार्द्राजिनछत्रभृत् । इभाः हस्तिनः । तेषां ईट् इभेट् । तस्य आर्द्रं यत् अजिनं चर्म तदेव छत्रं आर्द्राजिनछत्रं । तत् बिभर्तीति आर्द्राजिनछत्रभृत् । पुनः किंविशिष्टो मृड: ? अम्बुमदम्बुदा लिकलरुग्ग्रीवः । अम्बु विद्यते यत्र स अम्बुमान् । अम्बुमान् योऽसौ अम्बुदो मेघ: अम्बुमदम्बुदः । तस्य आलिः अम्बुमदम्बुदालि:, तद्वत् कला मनोज्ञा कान्तिः रुक् यस्याः सा अम्बुमदम्बुदालिकलरुक् । ईदृशी ग्रीवा यस्य सः अम्बुमदम्बुदालिकलरुग्ग्रीवः । ईदृशो मृड: वः पातु ॥१॥ इति श्रुतिकटुश्लोकार्थः समाप्तः । समस्या शरक्षेपे प्रष्टं किमयुतमितिः क्व भ्रमणकृत् क आद्यं तद्रूपं वद नभ इदं क्वोच्चतनुभाक् । Page #4 -------------------------------------------------------------------------- ________________ अनुसन्धान-५७ क आस्ते सप्तम्यास्तदिवदवचः (?) कोऽम्बुनि चितो धनु:कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥१॥ स्फुरन्नागेशेन स्वकवपुषि वक्रत्वसहिते धृते श्यामे पार्वे कमठरचितापायसमये । फणोच्चैराटोपे निबिड उपरिश्राविणि घने धनुःकोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥२॥ पुरस्यान्ते दृष्ट्वा वनमभिनवं नीलरुचियुक् परिक्षेपे तस्योन्नततरगिरिं वीक्ष्य च दृशा । सरद्वार्यापूर्णं तदुपरि पुनः कुण्डममलं धनुःकोटौ भृगस्तदुपरि गिरिस्तत्र जलधिः ॥३॥ लसत्क्रीडाकाले करनखशिखाग्रे भ्रमरके मुहुर्गुञ्जत्यास्ये भ्रमदतिगृहीतेऽत्र शिशुना तदीयोच्चैः भृङ्गे शितिसजलचञ्च्वीक्षणवशाद् धनुःकोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥४॥ ललाटे लोलाक्ष्याः शशकरदलौपम्यकलिते तदूर्ध्वस्थानस्थभ्रमरविधृते पूर्णकलशे । तदन्तःस्थायिन्यप्यमृतनिवहे दृष्टिपतिते धनु:कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥५॥ शिशोः कस्यापि भूपरिगतमषीकृष्णतिलकैः कृते मात्रा रूपाधिकगुणरमारक्षणकृते । दृशा दृष्टे श्रोत्रोपरि खचितरत्नाभरणके धनु:कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥६॥ सुपर्वाद्रेः शृङ्गे जननमहिमायां शितिरुचेरमुष्य श्रीनेमीश्वरजिनपतेरत्र विबुधैः । सदुष्णीषस्याग्रे कुसुमनिकरे चापि निभृते धनुःकोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥७॥ Page #5 -------------------------------------------------------------------------- ________________ डिसेम्बर २०११ भुजादण्डे धृत्वाऽत्यसितरुचिरोचिष्णुवपुषि द्विषद्भूमीपालद्विरदशिरसि माप भवता । असौ मुक्ते मुक्ताफलमणिगणेऽपि प्रकटिते धनुःकोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥८॥ (समस्या) श्यामाया आर्जवश्रीप्रथितकृशतनोः सत्कबन्धोपरिस्थं श्रोत्रध्राणोच्चतन्त्रद्वयविवरमधोर्ध्वप्रदेशस्थमीक्ष्य । स्फूर्जद्वर्णाढ्यवालव्यतिकरमुदिताम्भोभरं स्नानकाले कूपाः सूच्यग्रतः षट् तदुपरि नगरं तत्र गङ्गाप्रवाह:१ ॥१॥ सूच्यग्रोच्चत्वधारिप्रवरसरलसद्वर्षभृत्षट्कनिम्नस्वच्छाम्भःपूरपूर्णहृदविवरविवत्तिष्णुदेव्याश्रयेभ्यः । दृष्ट्वाविर्भूयमानं रुचिरसुरसरित्सिन्धुमुख्यापगाम्भः कूपाः सूच्यग्रतः षट् तदुपरि नगरं तत्र गङ्गाप्रवाहः ॥२॥ आयाता बहलाः सिताकरगृहा यत्र क्षणे मस्तके लोकानामृजुगात्रयष्ट्युपरितो रात्रौ तदूर्ध्वं पुनः । ज्योतिश्चक्रमवेक्ष्यते नगरवत् स्वर्गङ्गया शोभितं सूच्यग्रे किल कूपकाः षडभवन् गङ्गान्विता तत्र पू: ॥३॥ श्रीतीर्थङ्करपूजनोद्यतनरश्रेण्युच्चबाहुद्वयोपात्तारात्रिककूपषट्कनिवसद्वह्निस्वधाभुक् ततः । दृष्ट्वा धूमपयःप्रवाहमसकृच्चेतोविकल्पोऽस्ति मे सूच्यग्रे किल कूपकाः षडभवन् गङ्गान्विता तत्र पूः ॥४॥ अङ्गल्यग्रसुमुद्रिकास्थविवरान्तःस्थायिषट्कोणभृद्वज्रातर्गतलोकरूपविकसत्पानीयसम्भारतः । मन्यन्ते च तदा स्वबुद्धिविभवान्निर्मोत (?) वृन्दारकाः सूच्यग्रे किल कूपकाः षडभवन् गङ्गान्विता तत्र पू: ॥५॥ टि. १. "सूच्यग्रे कूपषट्कं तदुपरि नगरं तत्र वार्धिस्ततोऽद्रिः" आवा पदवाळी समस्या 'जिनस्तोत्रकोष'मां छपाई होवानुं याद छे. एमां आवी अन्य समस्याओ पण हती. -शी. Page #6 -------------------------------------------------------------------------- ________________ १४ अनुसन्धान-५७ __ द्वात्रिंशद्व्यञ्जनमय जिनस्तुति श्रीगुरुभ्यो नमः । कखगघङ चछजझ टठडढण तथदधन पफबभम यरलव शषसह । अथ द्वात्रिंशयञ्जनानां श्लोककरणकाम्यया लघुदीर्घस्वरदानपूर्वं जिनस्तुति प्रतिपिपादयुषुरहं कोविदविनोदायानुष्टुब्बन्धं रचयामि । यथा कुखगाऽघं डचाछाऽज झटढेडढणातिथिः । दधानः पां फबाभामो यरलावश षासहीः ॥ अस्य व्याख्या - हे कुखग ! कौ पृथिव्यां, खगः सूर्यस्तत्तुल्य ! । यथा सूर्यः पृथ्वी प्रकाशयति तथा भगवान् केवलज्ञानेन भूमावुद्योतकरः । हे ङ चाछ! डा प्राणः बलं, चा शोभा, ताभ्यां छो निर्मलः, नित्यो वा । जिनस्य नित्यं तारुण्याद् बलशोभायास्तदवस्थत्वापत्तेः । ङः प्राण इति सौभरिमुनिकृत[नाम]मालायां। चा स्त्री शोभा । 'छस्त्रिष्वयं निर्मले नित्ये' - इत्युरगदण्डाधिपकृत[नाम]मालोक्तत्वात् । हे जिन ! त्वं अघं पापं अज क्षिप । हे झटठेड ! झः प्रतापस्तेन टोऽर्कः, ठः शम्भुस्ताभ्यामीड्यते स्तूयते इति झटठेड । अत्र उणादये(दौ) अः प्रत्ययः । झः प्रतापे । 'टः पुमान् करटे धूमे तापेऽर्क' - इति । ठः शङ्करे - इत्युरगदं० । हे यरलावश ! यश्चन्द्रः, रः सूर्यः, ला लक्ष्मीः, एते सर्वे वशे यस्य स यरलावशस्तस्य सम्बो० । सर्वेषां नमनीयत्वात् । 'यः सूर्ये तारके चन्द्रे। रः सूर्येऽग्नौ धने कामे । ला च लक्ष्मीर्लमम्बरे' - इति विश्वशम्भूक्तिः। त्वं किंलक्षणः ? ढणातिथिः । ढः स्वभावेन, णा कृपा, सा अतिथिर्यस्य सः । यतः कृपालोश्चेतोगृहे कृपा आयाति । यत उक्तं – 'सरिसा सरिसेहिं रच्चंति' इति वाक्योक्तेः । 'ढः स्वभावे, विमत्सरे' इति विश्वशम्भूक्तिः । ‘णा धेनुनासाकृपासु च'- इति उरगदं० । त्वं किं कुर्वाणः ? दधानः बिभ्रत् । कां ? पां । पा श्रुतं । 'पा पातरि तथा श्रुते' - इत्येकाक्षरनिघण्टुः । त्वं किल० फबाभामः । फो ज्ञानं तस्य बः समुद्रः । न विद्यते भामः क्रोधो यस्य सोऽभामः । फबश्च अभामश्च फबाभामः । 'फोऽपारदशने देवे न्याये ज्ञाने च' । तथा- 'वो दन्तोष्ठ्यस्तथौष्ठयोऽपि वरुणे वारणे वरे । शोषणे पचने गन्धे वासे वृन्दे च वारिधौ ॥१॥'- इति विश्वशम्भूक्तमालायां । पुनः त्वं किंलक्षणः ? षासहीः । षा रमा तया सहितो ही[:] हर्षस्तद्वान् । लक्ष्मीसहितहर्षवान् इत्यर्थः । यदुक्तम् - 'षा स्त्री रमायां Page #7 -------------------------------------------------------------------------- ________________ डिसेम्बर २०११ षं क्ली ' उरगदण्डाधिपकृतमालोक्तं ('हीर्नरो हर्षवान् मृग:' इति सौभरिमुनिप्रणीतमालोक्तत्वात् । कुखगेतिपदेन ज्ञानातिशयः १ । झटठडेतिपदेन पूजातिशयः २ । पापापनोदात् सङ्कटानि नश्यन्तीत्यतः अघं अज इतिपदेन अपायापगमातिशय: ३ । श्रुतं विना वाक्यस्यादेयता न स्यादतः पां दधान इतिपदेन वचनातिशयः ४ । - इति द्वात्रिंशद्व्यञ्जनमयः विषमार्थयुगनुष्टुप् धीधनजनमनोविनोदनिबन्धनाय पं. लक्ष्मीकल्लोलगणिना व्यरचि । १५ जैन देरासर ३७०४३५ जि. कच्छ, गुजरात नानीखाखर -