Book Title: Vidwanono Kavya Vinod
Author(s): Bhuvanchandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 6
________________ १४ अनुसन्धान-५७ __ द्वात्रिंशद्व्यञ्जनमय जिनस्तुति श्रीगुरुभ्यो नमः । कखगघङ चछजझ टठडढण तथदधन पफबभम यरलव शषसह । अथ द्वात्रिंशयञ्जनानां श्लोककरणकाम्यया लघुदीर्घस्वरदानपूर्वं जिनस्तुति प्रतिपिपादयुषुरहं कोविदविनोदायानुष्टुब्बन्धं रचयामि । यथा कुखगाऽघं डचाछाऽज झटढेडढणातिथिः । दधानः पां फबाभामो यरलावश षासहीः ॥ अस्य व्याख्या - हे कुखग ! कौ पृथिव्यां, खगः सूर्यस्तत्तुल्य ! । यथा सूर्यः पृथ्वी प्रकाशयति तथा भगवान् केवलज्ञानेन भूमावुद्योतकरः । हे ङ चाछ! डा प्राणः बलं, चा शोभा, ताभ्यां छो निर्मलः, नित्यो वा । जिनस्य नित्यं तारुण्याद् बलशोभायास्तदवस्थत्वापत्तेः । ङः प्राण इति सौभरिमुनिकृत[नाम]मालायां। चा स्त्री शोभा । 'छस्त्रिष्वयं निर्मले नित्ये' - इत्युरगदण्डाधिपकृत[नाम]मालोक्तत्वात् । हे जिन ! त्वं अघं पापं अज क्षिप । हे झटठेड ! झः प्रतापस्तेन टोऽर्कः, ठः शम्भुस्ताभ्यामीड्यते स्तूयते इति झटठेड । अत्र उणादये(दौ) अः प्रत्ययः । झः प्रतापे । 'टः पुमान् करटे धूमे तापेऽर्क' - इति । ठः शङ्करे - इत्युरगदं० । हे यरलावश ! यश्चन्द्रः, रः सूर्यः, ला लक्ष्मीः, एते सर्वे वशे यस्य स यरलावशस्तस्य सम्बो० । सर्वेषां नमनीयत्वात् । 'यः सूर्ये तारके चन्द्रे। रः सूर्येऽग्नौ धने कामे । ला च लक्ष्मीर्लमम्बरे' - इति विश्वशम्भूक्तिः। त्वं किंलक्षणः ? ढणातिथिः । ढः स्वभावेन, णा कृपा, सा अतिथिर्यस्य सः । यतः कृपालोश्चेतोगृहे कृपा आयाति । यत उक्तं – 'सरिसा सरिसेहिं रच्चंति' इति वाक्योक्तेः । 'ढः स्वभावे, विमत्सरे' इति विश्वशम्भूक्तिः । ‘णा धेनुनासाकृपासु च'- इति उरगदं० । त्वं किं कुर्वाणः ? दधानः बिभ्रत् । कां ? पां । पा श्रुतं । 'पा पातरि तथा श्रुते' - इत्येकाक्षरनिघण्टुः । त्वं किल० फबाभामः । फो ज्ञानं तस्य बः समुद्रः । न विद्यते भामः क्रोधो यस्य सोऽभामः । फबश्च अभामश्च फबाभामः । 'फोऽपारदशने देवे न्याये ज्ञाने च' । तथा- 'वो दन्तोष्ठ्यस्तथौष्ठयोऽपि वरुणे वारणे वरे । शोषणे पचने गन्धे वासे वृन्दे च वारिधौ ॥१॥'- इति विश्वशम्भूक्तमालायां । पुनः त्वं किंलक्षणः ? षासहीः । षा रमा तया सहितो ही[:] हर्षस्तद्वान् । लक्ष्मीसहितहर्षवान् इत्यर्थः । यदुक्तम् - 'षा स्त्री रमायां

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17