Book Title: Vidwanono Kavya Vinod
Author(s): Bhuvanchandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ डिसेम्बर २०११ भुजादण्डे धृत्वाऽत्यसितरुचिरोचिष्णुवपुषि द्विषद्भूमीपालद्विरदशिरसि माप भवता । असौ मुक्ते मुक्ताफलमणिगणेऽपि प्रकटिते धनुःकोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥८॥ (समस्या) श्यामाया आर्जवश्रीप्रथितकृशतनोः सत्कबन्धोपरिस्थं श्रोत्रध्राणोच्चतन्त्रद्वयविवरमधोर्ध्वप्रदेशस्थमीक्ष्य । स्फूर्जद्वर्णाढ्यवालव्यतिकरमुदिताम्भोभरं स्नानकाले कूपाः सूच्यग्रतः षट् तदुपरि नगरं तत्र गङ्गाप्रवाह:१ ॥१॥ सूच्यग्रोच्चत्वधारिप्रवरसरलसद्वर्षभृत्षट्कनिम्नस्वच्छाम्भःपूरपूर्णहृदविवरविवत्तिष्णुदेव्याश्रयेभ्यः । दृष्ट्वाविर्भूयमानं रुचिरसुरसरित्सिन्धुमुख्यापगाम्भः कूपाः सूच्यग्रतः षट् तदुपरि नगरं तत्र गङ्गाप्रवाहः ॥२॥ आयाता बहलाः सिताकरगृहा यत्र क्षणे मस्तके लोकानामृजुगात्रयष्ट्युपरितो रात्रौ तदूर्ध्वं पुनः । ज्योतिश्चक्रमवेक्ष्यते नगरवत् स्वर्गङ्गया शोभितं सूच्यग्रे किल कूपकाः षडभवन् गङ्गान्विता तत्र पू: ॥३॥ श्रीतीर्थङ्करपूजनोद्यतनरश्रेण्युच्चबाहुद्वयोपात्तारात्रिककूपषट्कनिवसद्वह्निस्वधाभुक् ततः । दृष्ट्वा धूमपयःप्रवाहमसकृच्चेतोविकल्पोऽस्ति मे सूच्यग्रे किल कूपकाः षडभवन् गङ्गान्विता तत्र पूः ॥४॥ अङ्गल्यग्रसुमुद्रिकास्थविवरान्तःस्थायिषट्कोणभृद्वज्रातर्गतलोकरूपविकसत्पानीयसम्भारतः । मन्यन्ते च तदा स्वबुद्धिविभवान्निर्मोत (?) वृन्दारकाः सूच्यग्रे किल कूपकाः षडभवन् गङ्गान्विता तत्र पू: ॥५॥ टि. १. "सूच्यग्रे कूपषट्कं तदुपरि नगरं तत्र वार्धिस्ततोऽद्रिः" आवा पदवाळी समस्या 'जिनस्तोत्रकोष'मां छपाई होवानुं याद छे. एमां आवी अन्य समस्याओ पण हती. -शी.

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17