Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 13
________________ भूमिका। विदितमस्त्वेतत्खलु सर्वेषामेवात्रभवतां कारकार्थानधिजिगमिषूणां व्युत्पित्सतां च तत्र, तत्रापि न्यायधोरणीपरिष्कृतमनसा प्रेक्षावतां संमदावहकार्यम्। ___यत्किल जागरूकेष्वपि प्रथमादिनिखिलविभक्तिव्युत्पादनच योग्यताकेषु नैयायिकमतानुसारिषु व्युत्पत्तिवादशब्दशक्तिप्रकाशिकापवाक्यरत्नाकरशब्दार्थरत्नादिषु बहुषु निबन्धेषु यथाऽयं मुद्रयित्वा प्रकाशनायोपक्रान्तः पुरातनोऽप्यधुनैव प्रकाशनान्नव्यतामिव दधानोऽन्वर्थामाख्यां बिभ्रद विभक्त्यर्थनिर्णयनामा नतिदुरूहतया, विस्तृततया, परिपूर्णप्रतिपाद्यविषयतया, परोक्तिनिराकृतिसद्युक्त्यादिगर्भिततया चेदानीन्तनप्रचारशालीदृशग्रन्थापेक्षया 5वश्यं खकीयविषयबुभुत्सुजनमानसेभ्यो ऽधिकं रोचिष्यते निबन्धो न तथा निबन्धान्तरम् इति संभाव्यते । अत्र च क्रमेण प्रथमादिसप्तविंभक्तिविचारो भगवत्पाणिनिकृतसुविभक्तिविधायकसूत्रविवरणव्याजान्न्यायमतमनुरुन्धानेन ग्रन्थक; विहितः । अस्य प्रणेता मिथिलादेशीयो मगरोलीग्रामवास्तव्यः फणदहकुलजन्मा झोपाख्यो गिरिधरोपाध्यायः । अयं च महोपाध्यायवागीशशर्मतो जयन्तीदेव्याऽलम्भि, पदवाक्यरत्नाकरामृतोदयादिविविधनिबन्धनिबन्धुरशेषशास्त्राम्बुधिपारदृश्वनः श्रीनगरनृपालफतेहसागुरोः खकीयपैतृव्यभ्रातुः श्रीगोकुलनाथोपाध्यायातू समधिगतविद्यश्च संपन्नः। गोकुलनाथोपाध्यायः पञ्चदशाधिकषोडशशततमशकाब्दे मिथिलामभूषयदिति तदीयग्रन्थादितो निश्चीयतेऽतोऽर्थात्तच्छिष्यस्यास्य ग्रन्थकर्सरपि तत्समकालतेति निर्विचिकित्सम् । तच्छिष्यता तु खयमेवानेन विभक्त्यर्थनिर्णये तत्र तत्र " इति पदद्वाक्यरत्नाकरेऽस्मदूगुरुचरणा" इत्यादिलेखेन प्रकाशिता। पवाक्यरत्नाकरस्य गोकुलनाथोपाध्यायकर्तृत्वे च तत्कृतग्रन्थान्तिमलेख एव प्रामाण्यपदवीमधिरोहति । अस्य च विभक्त्यर्थनिर्णयस्यैकमेव पुस्तकमधिगतं तदेवाश्रित्य श्रीयुतबाबूहरिदासगुप्तविक्षप्त्यनुरोधादेतद्ग्रन्थरत्नं सं. C Aho ! Shrutgyanama

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 498